________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. कुत्स्यते किंतर्हि तदाश्रयो द्रव्यम् / वैयाकरणत्वं तदुपलक्षणमात्रम् / तेनात्र विशेषणसमासो भवति / चौरवैयाकरणः / कुत्सनैरिति किम् / कुत्सितो ब्राह्मणः। बहुलाधिकारात् विशेषणसमासोऽप्यत्र न भवति / भवतीत्यन्ये / कुत्सितब्राह्मणः / अपापाद्यैरिति किम् / पापवैयाकरणः। प्रवृत्तिनिमित्तमेव कुत्स्यते / विशेष्यस्य पूर्वनिपातार्थ सूत्रम् / बहुवचनं प्रयोगानुसरणार्थम् / 829 उपमान सामान्यैः // 3 / 1 / 101 // उपमीयतेऽनेनेत्युपमानम् / उपमानोपमेययोः साधारणो धर्मः सामान्यम् / उपमानवाचि नामैकार्थ सामान्यवाचिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / शस्त्रीव शस्त्री / शस्त्री चासौ श्यामा च शस्त्रीश्यामा / शस्त्रीव श्यामेत्यर्थः / एवं न्यग्रोधपरिमण्डलेत्यादि / अत्र शख्यादयः शद्धाः श्यामादयश्च श्यामादिकं गुणमुपादाय यदोपमेये वर्तन्ते तदैकार्था भवन्ति / एवं च पुंवद्भावोऽपि सिद्धो भवति / उपमानमिति किम् / देवदत्ता श्यामा / सामान्यैरिति किम् / अग्निर्माणवकः / गौर्वाहीकः / विशेषणं विशेष्येणेत्येव सिद्धे उपमानोपमेययोः साधारणधर्मप्रतीत्यन्यथानुपपत्त्यैव पूर्वनिपाते च सिद्धे उपमानं सामान्यैरेवेति नियमार्थ वचनम् / तेनाग्नि पदक इत्यादौ विशेषणसमासोऽपि न भवति। 830 उपमेयं व्याघ्राद्यैः साम्यानुक्तौ // 3 / 1 / 102 // उपमेयवाचि नामैकोथै सामर्थ्यादुपमानवाचिभिर्व्याघ्राद्यैः नामभिः सह समस्यते, साम्यानुक्तौन चेदुपमानोपमेययोः साधारणधर्मवाची शद्भः प्रयुज्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयश्च / व्याघ्र इव व्याघ्रः पुरुषः स चासौ व्याघ्रश्च पुरुषव्याघ्रः। एवं पुरुषसिंहः / राज्ञी चासौ व्याघ्री च राजव्याघ्री। अत्रापि कर्मधारयात् पुंवद्भावः। साम्यानुक्ताविति किम् / पुरुषव्याघ्रः शूरः इति मा भूत् / इदमेव च प्रतिषेधवचनं ज्ञापकं प्रधानस्य सापेक्षत्वेऽपि समासो भवति / तेन राजपुरुषो दर्शनीय इत्यादि सिद्धम् / बहुवचनमाकृतिगणार्थम् / तेन वाग्वव्र इत्यादयोऽपि भवन्ति / उपमानं सामान्यैरेवेत्यवधारणेन विशेषणसमासे प्रतिपिद्धे. समासविधानार्थ वचनम् / 831 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम्॥३।१।१०३।। पूर्वादीनि नामान्येकार्थानि परेण नाम्ना सह समस्यन्ते स च समासस्तत्पुरुषः