SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 181 इति न्यायात् अप्रधानस्यैव प्रधानेन समासः। प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव साक्षात् क्रियाभिसंबंधात् / यद्यपि चोत्पलादिशद्धा जातिशद्धास्तथापि उत्पत्तेः प्रभृत्याविनाशाद्रव्येण जातेरभिसंबंधाद्रव्यशद्धा उच्यन्ते / गुणक्रिययोस्तु तथा द्रव्येण संबंधाभावान्न तनिमित्ताः शद्धा द्रव्यशद्धा इति नीलोत्पलमित्याद्येव भवति न तूत्पलनीलादीति / यस्तु गुणादिशद्धानामेव समासस्तत्रोभयोरपि पदयोरप्रधानत्वात् कामचारेण पूर्वापरनिपातः / खञ्जश्चासौ कुण्टश्च खञ्जकुण्टः , कुण्टखञ्ज इत्यादि / कृष्णसारङ्ग इत्यादौतु गुणशद्वत्वेऽपि सारङ्गादिशद्वानां सपुदायवाचित्वात् प्राधान्यम् कृष्णादिशबानां त्ववयववाचित्वेनाप्राधान्यमिति कृष्णादीनामेव पूर्वनिपातः। एकार्थमिति किम् / वृद्धस्योक्षा वृद्धोक्षा। कर्मधारये समासान्तः स्यात् / बहुलाधिकारात् कचित्समासो न भवति / रामो जामदग्न्यः / कचिन्नित्यः। कृष्णसर्पः। लोहितशालिः। पुरुषमृगः। जातिविशेषवाचित्वान्नित्यसमासा एते / नहि वाक्येन जातिर्गम्यते / जातिशद्वानां चावयवद्वारेण समुदायेऽपि वृत्तेः सामानाधिकरण्यम् / भूयोऽवयवाभिधायिनश्च प्राधान्याद् विशेष्यत्वमितरस्य तु विशेषणत्वम् / चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः। 828 पूर्वकालकसर्वजत्पुराणनवकेवलम् // 3 / 1 / 27 // पूर्वकाल इत्यर्थनिर्देशः / पूर्वःकालो यस्यार्थस्य स पूर्वकालः। तद्वाचि नाभैकादीनि चैकार्थानि परेण नाम्ना सह समस्यन्ते तत्पुरुषः कर्मधारयश्च समासः। पूर्वकालः संबंधिशब्दत्वादपरकालेन / पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः / एवं लिप्तवासितः। एकशब्दः संख्यान्यसहायाद्वितीयेषु वर्तते / एका शाटी एकशाटी। शाटशब्देन खनभिधानान भवति / एकः शाटः / सर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्स्न्थे वर्तते / सर्वशैलाः / जरद्वलिनः / पुराणवैयाकरणः। नवोदकम् / केवलमसहायं ज्ञानं केवलज्ञानम् / एकार्थमित्येव / स्नात्वानुलिप्तः / स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनकार्यम् / पूर्वेणैव सिद्धे पुनर्वचनं स्पः परमिति पूर्वनिपातस्य विषयप्रदर्शनाथम्, पूर्वापरकालवाचिनोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातनार्थ च / 826 दिगधिकं संज्ञातद्धितोत्तरपदे // 3 / 1198 // दिग्वाचि अधिकमित्येतच नामैकार्थ परेण नाम्ना सह समस्यते संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः , स च समासस्तत्पुरुषः कर्मधारयश्च / दक्षिणाः कोशलाः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy