SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [तत्पुरुषसमास कृतम् / तद्धिताद्युत्पत्तिः समासफलम् / तात्रकृतिः। तत्राहोरात्रांशमिति किम् / अहोरात्रग्रहणं किम् / शुक्लपक्षे कृतम् / पक्षो मासांशः / अंशग्रहणं किम् / अहनि भुक्तम् / कथं रात्रिवृत्तमिति ? / बहुलाधिकारात् / क्तेनेत्येव / तत्र भोक्ता / 822 नानि // 3 / 1 / 94 // सप्तम्यन्तं नाम नाम्ना समस्यते नाम्नि-संज्ञाविषये समुदायश्चेत्संज्ञा भवति, समासश्च तत्पुरुषः। अरण्येतिलकाः / वनेकशेरुकाः। मुकुटे कार्षापण। अयंजनादित्यनेन प्राकारस्येत्यनेन च वक्ष्यमाणसूत्रेण सप्तम्या अलुप् / नित्यसमासोऽयं, नहि वाक्येन संज्ञा गम्यते / 823 कृयेनावश्यके // 3 / 1196 // सप्तम्यन्तं नाम ' य एचातः' (51-28) इति कृद्यप्रत्ययान्तेन नाम्ना समस्यते आवश्यके-अवश्यंभावे गम्यमाने तत्पुरुषश्च समासः। मासेऽवश्यं देयं मासदेयम् / एवं संवत्सरदेयम् / कृदिति किम् / मासे पित्र्यम् / य इति किम् / मासे स्तुत्यः। संवत्सरकर्तव्यमिति तु बहुलाधिकारात् / आवश्यक इति किम् / मासे देया भिक्षा / ऽनेकपकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छियतेऽनेनेति विशेषणं,व्यवच्छेद्यं विशेष्यम् / भिन्नप्रवृत्तिनिमित्तयोः शवयोरेकस्मिन्नर्थे वृत्तिकायं सामानाधिकरण्यमिति यावत् / तद्वदेकार्थम् / विशेषणवाचि नामैकार्थ विशेष्यवाचिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च स्यात् / नीलं च तदुत्पलं च नीलोत्पलम् / विशेषणविशेष्ययोः संबंधिशद्वत्वादेकतरोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् / तेनेह न भवति / तक्षका सर्पः / लोहितस्तक्षक इति / न ह्यसोऽन्यवर्णो वा तक्षकोऽस्ति / कथं तर्हि आम्रवृक्ष इत्यादौ समासः ? / न ह्यक्ष आम्रो भवति / नात्राम्रादयः वृक्षविशेषाणामेव वारकाः, किं तर्हि फलादेरपि तत्सहिचरितमाधुर्यस्थैर्यादेर्गुणविशे संबंधी वृक्षः आम्रवृक्ष इत्यादयः षष्ठीसमासा द्रष्टव्याः। यद्येवमुभयोविंशषणत्वे उभयोश्चविशेष्यत्वे सति विशेष्यस्यापि विशेषणत्वमित्युत्पलशगस्यापि नीलादिना समासप्रसङ्गः, तथा च 'प्रथमोक्तं प्राक् ' इति वचनादुत्पलनीलमित्यपि स्यात् / नैवम् / अविशेषेऽपि विशेषणविशेष्यभावस्य ‘प्रधानानुयाय्यप्रधानम्'
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy