________________ 179 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 815 सप्तमी शौण्डाद्यैः // 3 / 1 / 88 // सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह समस्यते तत्पुरुषश्च समासः / पाने प्रसक्तः शौण्डः पानशौण्डः मद्यपः / अक्षेषु प्रसक्तः शौण्ड इव अक्षशौण्डः। शौण्डशब्द इह गौणो व्यसनिनि वर्तते / वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः। बहुवचनमाकृतिगणार्थम् , तेन शिरःशेखरः, ऋणे अधमः अधमर्णः, ऋणे उत्तमः उत्तमर्णः राजदन्तादित्वात् परनिपात इत्यादि सिद्धं भवति / 816 सिंहाद्यैः पूजायाम् // 3 / 1189 // सप्तम्यन्तं नाम सिंहाचैर्नामभिः सह समस्यते पूजायां गम्यमानायाम्, तत्पुरुषश्च समासः। समरे सिह इव समरसिंहः। एवं रणव्याघ्रः। उपमयात्र पूजावगम्यते बहुवचनमाकृतिगणार्थम् / 817 काकाद्यैः क्षेपे // 3 / 1 / 90 // सप्तम्यन्तं नाम काकाद्यैर्नामभिः सह समस्यते क्षेपे गम्यमाने, तत्पुरुषश्च समासः। तीर्थे काक इव तीर्थकाकः। एवं तीर्थध्वांक्षः / अनवस्थित एवमुच्यते / उपमया चात्र क्षेपो गम्यते।क्षेप इति किम् / तीर्थे काकस्तिष्ठति / बहुवचनमाकृतिगणार्थम् / ____818 पात्रेसमितेत्यादयः // 3 / 1191 // पात्रेसमितादयः सप्तमीतत्पुरुषा निपात्यन्ते क्षेपे गम्यमाने / पात्र एव समिताः पात्रेसमिताः, भोजनसमये एव संगता न तु कार्ये / एवं पात्रेबहुलाः, गेहेशूरः, गेहेनर्दीत्यादयः। इतिशब्दः समासान्तरनिवृत्त्यर्थः। तेन परमाः पात्रेसमिताः इत्यादिषु समासो न भवति / निपातनात् सप्तम्या अलुप् / बहुवचनमाकृतिगणार्थम् / तेन व्रणकृमिरित्यादयो गृह्यन्ते / 819 क्तेन // 3 / 1 / 92 // सप्तम्यन्तं नाम कान्तेन नाम्ना सह समस्यते क्षेपे गम्यमाने तत्पुरुषश्च समासः। . 820 कृत्सगतिकारकस्यापि // 4 / 117 // कृत्पत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य अपिशब्दात् केवलस्यापि विशेषणं स्यात् / भस्मनिहुतम् / प्रवाहेमूत्रितम् / कार्येष्वनवस्थितत्वमुच्यते / सर्वत्रोपमानेन क्षेपो गम्यते / नित्यसमासाश्चैते पात्रेसमितादयश्च / 821 तत्राहोरात्रांशम् // 3 / 1 / 93 // पृथग्योगात् क्षेप इति निवृत्तम् / तत्रेत्येतत्सप्तम्यन्तं नामाहरवयवा राज्यवयवाश्च सप्तम्यन्ताः क्तान्तेन नाम्ना सह समस्यन्ते तत्पुरुषश्च समासः / तत्रकृतम् / पूर्वाणे कृतं पूर्वाह्णकृतम् / पूर्वरात्र