SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. तत्पुरुषसमास षष्ठयामपि न समास इति कश्चित् / विचित्रा सूत्रस्य कृतिराचार्यस्य / कर्तरीत्येव / साध्विदं शब्दानुशासनमाचार्यस्य नः पुण्येन / कर्मजेत्येव / मैत्रस्य संबंधी कृतो मैत्रकृतश्चैत्रेण / कथं गोदोहो गोपालकेन ? / संबंधषष्ठ्या भविष्यति / 812 तृप्तार्थपूरणाव्ययातृश्शत्रानशा // 3 / 1185 // तृप्ताथैः पूरणप्रत्ययान्तैरव्यथैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठयन्तं नाम न समस्यते / फलानां तृप्तः / तीर्थकराणां षोडशः / राज्ञः साक्षात् / अव्ययीभावस्याप्यन्वर्थाश्रयणात् कचिदव्ययत्वम् / तेन चैत्रस्योपकुंभमित्यत्र समासो न भवतीति केचित् / अतृश-रामस्य द्विषन् / शत्-चैत्रस्य पचन् / चैत्रस्य पचमानः / सर्वत्र संबंधे षष्ठी। एतैरिति किम् / ब्राह्मणस्य कर्तव्यं ब्राह्मणकर्तव्यम् / राज्ञः पाटलिपुत्रकस्य धनमित्यादौ सामानाधिकरण्ये धनादिपदापेक्षया षष्ठीत्यसामर्थ्यात् समासो न भवति / विशेषणसमासस्तु निरपेक्षत्वेन सामर्थ्याद् भवत्येव / पाटलिपुत्रकश्चासौ राजा च तस्य पाटलिपुत्रकराजस्येत्यादि / षष्ठीसमासे तु अनियमेन पूर्वनिपातः स्यात् / .. 813 ज्ञानेच्छा_र्थाधारक्तेन // 31 // 86 // ज्ञानार्थादिच्छार्थादर्चार्थाच्च वर्तमानो यः क्तो यश्च 'अद्यर्थाच्चाधारे (5-1-12) इत्याधारे विहितस्तदन्तेन नाम्ना षष्ठ्यन्तं नाम न समस्यते / राज्ञां ज्ञातः, बुद्धः, इष्टः, मतः, अर्चितः, पूजितो वा / इदमेषां यातम् / कथं राजपूजितः इत्यादि ? बहुलाधिकारात् इष्टेन भूतकालक्तेन तृतीयासमास एवेति केचित् / अन्ये तु कृयोगजाया एव षष्ठ्या इह समासप्रतिषेध इति संबंधे षष्ठीसमास इत्याहुः। / 814 अस्वस्थगु गैः // 3 / 1 / 87 / ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः। तत्प्रतिषेधेनास्वस्थगुणवाचिभिर्नामभिः सह षष्ठयन्तं नाम न समस्यते। पटस्य शुक्लः / कालस्य कृष्णः / अत्र अर्थात्मकरणाद्वापेक्ष्यस्य वर्णादेनिर्ज्ञाने य इमे शुक्रादयस्ते पटादेरिति सामोपपत्तेः समासः प्रामोतीति प्रतिषिध्यते / तथा पटस्य शौक्ल्यम्, काकस्य कार्ण्यम्-अत्र पूर्वत्र च शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिप्रदर्शनात् अस्वास्थ्यमस्त्येव। गुणशब्देन चेह लोकमसिद्धा रूपरसगंधस्पर्श गुणा अभिप्रेतास्ततः तद्विशेषैरेवायं प्रतिषेधः, तेन यत्नस्य गौरवम् यत्नगौरवम् इत्यादिषु निषेधो न भवति / अस्वस्थगुणैरिति किम् / घटवर्णः / बहुलाधिकारात् कंटकस्य तैक्षण्यमित्यादिषु समासो न भवति, कुसुमसौरभ्यमित्याविषुः भवतीति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy