________________ 177 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 806 पत्तिरथौ गणकेन // 31 // 79 // पत्तिरथशब्दौ षष्ठयन्तौ गणकेन नाम्ना समस्येते तत्पुरुषश्च समासः / पत्तीनां गणकः पत्तिगणकः। एवं रथगणकः। पत्तिरथाविति किम् / कार्षापणानां गणकः। गणेकेनेति किम् / रथस्य दर्शकः। कथं ज्योतिर्गणकः ? 'अकेन क्रीडाजीवे ' इति भविष्यति / 'कर्मजा तृचा च ' इत्यस्यावादोऽयम् / 807 सर्वपश्चादादयः // 31180 // सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवः। सर्वेषां पश्चात् सर्वपश्चात् पदं वर्तते / सर्वचिरं जीवति। तदुपरिष्टात् रुक्मं निदधाति / इत्यादि। अव्ययेन प्रतिषेधं वक्ष्यति तस्यापवादोऽयम् / बहुवचनं शिष्टप्रयोगानुसरणार्थम् / 808 अकेन क्रीडाजीवे // 3 / 1181 // आजीवो जीविका। षष्ठयन्त नामाकप्रत्ययान्तेन नाम्ना समस्यते क्रीडायामाजीवे च गम्यमाने तत्पुरुषश्च समासः। उद्दालकपुष्पभञ्जिका। क्रीडाविशेषस्य संज्ञा। आजीवे-दन्तलेखक:। दन्तलेखनादिरस्याजीवो गम्यते / क्रीडाजीवौ वाक्येन न गम्यते इति नित्यसमासा एते / क्रीडाजीव इति किम् / ओदनस्य भोजकः। कर्मजा तृचा इति प्रतिषेधे प्राप्ते वचनम् / 809 न कर्तरि // 3 / 1182 // कर्तरि विहिता या षष्ठी तदन्तं नामाकान्तेन नाम्ना न समस्यते / भवतः शायिका / भवत आसिका / कर्तरीति किम् / इक्षुमक्षिकां मे धारयसि / 810 कर्मजा तृचा च॥३।११८३॥ कर्तरीत्यनुवर्तते / तच्चाकस्य विशेषणम् / कर्मणि विहिता षष्ठी कर्मना / तदन्तं नाम कर्तरि विहितो योऽकमत्ययस्तदन्तेन तृजन्तेन च नाम्ना सह न समस्यते / ओदनस्य भोजकः / अपां स्रष्टा / कर्मजेति किम् / संबंधषष्ठ्याः प्रतिषेधो मा भूत / गुणो गुणिविशेषकः। गुणिनः संबंधी विशेषक इत्यर्थः। कर्तरीत्येव / इक्षुभक्षिकां मे धारयसि / कथं भूभर्ता, वज्रभतेति ? भर्तृशब्दो यः पतिपर्यायस्तेन संबंधषष्ठया याजकादिपाठात् कर्मषष्ठया वाऽयं समासः / क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः / भुवो भर्ता / वज्रस्य भर्ता / 811 तृतीयायाम् // 3 / 1184 // कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते। आश्चर्यो गवां दोहोऽगोपालकेन / साध्विदं शब्दानामनुशासनमाचार्येण / तृतीयायामिति किम् / साध्विदं शब्दानुशासनमाचार्यस्य / कर्तरि