________________ 176 सिद्धहैमबृहत्पक्रिया. [तत्पुरुषसमास 801 क्तेनासत्वे // 3 // 174 // असत्वे वर्तमाना या पश्चमी तदन्तं नाम क्तमत्ययान्तेन नाम्ना सह समस्यते तत्पुरुषश्च समासः / स्तोकान्मुक्तः। 'असत्वे ङसेः ' इति वक्ष्यमाणेन विभक्तेरलुप् / क्तेनेति किम् / स्तोकान्मोक्षः ।असत्व इति किम् / स्तोकाद् वद्धितः / स्तोकाद्रव्यादित्यर्थः। समासे तद्धितायुत्पत्तिः फलम्स्तौकान्मुक्तिः इत्यादि। 802 परःशतादिः / / 3 / 1 / 75 // परःशतादिः पञ्चमीतत्पुरुषः साधुर्भवति / शतात् परे परःशताः। सहस्रात् परे परःसहस्राः। लक्षाल्लक्षाया वा परे परोलक्षाः। परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् / परशब्देन समानार्थः परसशब्दः सकारान्तोऽप्यस्तीत्यन्ये / 803 षष्ठ्ययत्नाच्छेषे // 3 / 1 / 76 // शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते तत्पुरुषश्च समासः, अयत्नात्-न चेत् स शेषो ' नाथः' इत्यादेयत्नाद् भवति / राज्ञः पुरुषः राजपुरुषः / ऋद्धस्य राज्ञः पुरुष इत्यादौ सापेक्षत्वान्न भवति / कथं देवदत्तस्य गुरुकुलमिति ? / सापेक्षत्वेऽपि गमकत्वाद् भवति / अयत्नादिति किम् / सर्पिषो नाथितम् / शेष इति किम् / सर्पिषो ज्ञानम् / गोस्वामीत्यादिषु त्वय नजा शेष एव षष्ठी / 'स्वामीश्वरा ' इति सूत्रस्य नित्यं षष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् / संघस्य भद्रं भूयादित्यादौ त्वाशिषि षष्ठ्याः समासो न भवति असामर्थ्यात् अनभिधानाद्वा / नहि संघभद्रं भूयादित्युक्ते संघस्य भद्रं भूयादित्यर्थः पतीयते अपि तु संघभद्रं नाम संघसंबंधितया प्रसिद्धं किंचिद् भद्रं कस्यचिद्भूयादिति / 804 कृति // 3 // 177 // 'कर्मणि कृतः' 'कर्तरी ति च या कृति कृत्पत्ययनिमित्ता षष्ठी विहिता तदन्तं नाम नाम्ना समस्यते तत्पुरुषश्च समासः। सिद्धसेनकृतिः / गणधरोक्तिः। 805 याजकादिभिः // 3 / 1 / 78 // षष्ठ्यन्तं नाम याजक इत्येवमादिभिनामभिः सह समस्यते तत्पुरुषश्च समासः / ब्राह्मणानां याजकः ब्राह्मणयाजकः / एवं गुरुपूजकः / आकृतिगणोऽयम् / तेन तुल्यार्था अपि / गुरुसदृशः इत्यादयः, तथा अन्यत्कारकः इत्यादयः सिद्धाः / 'कर्मजा तृचा चेति प्रतिषेधापवादो योगः तुल्यार्थैविध्यर्थश्च।