________________ 178 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. कर्तृकरणरूपं कृदन्तेन नाम्ना सह समस्यते तत्पुरुषश्च समासः। आत्मना कृतम् आत्मकृतम् / कृत्सगतिकारकस्यापि / चैत्रेण नखनिर्भिन्नः चैत्रनखनिर्भिन्नः / परशुना छिन्नः परशुच्छिन्नः / बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः / काकपेया नदी / एवं नाम पूर्णेत्यर्थः। कण्टकसंचेय ओदनः / एवं नाम विशद इत्यर्थः / कारकमिति किम् / विद्ययोषितः / तेन हेतुनेत्यर्थः / कृतेति किम् / गोमिर्वपावान् / बहुलाधिकारादेव क्तवतुना क्त्वया तव्यानीयाभ्यां च न भवति / दात्रेण लूनवान् / दात्रेण कृत्वा। काकैः पातव्यः / श्वभिलेहनीयः। ___796 नविंशत्यादिनैकोऽच्चान्तः // 3 / 1 / 69 // एकशब्दस्तृतीयान्तो नविंशत्यादिनाम्ना सह समस्यते तत्पुरुषश्च समासः, एकशब्दस्य चादन्तो भवति / एकेन न विंशतिः एकानविंशतिः / पक्षे एकानविंशतिः। एवमेकानत्रिंशत् / एकाद्नत्रिंशत् / नविंशत्यादिनेति निर्देशात् नअत् न भवति / 797 चतुर्थी प्रकृत्या // 3 / 1170 // प्रकृतिः परिणामि कारणम् / चतुर्थ्यन्तमर्थाद् विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह समस्यते तत्पुरुषश्च समासः / यूपाय दारु यूपदारु / प्रकृत्येति किम् / रंधनाय स्थाली / मूत्राय संपद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य संपद्यते इत्यादि क्रियासापेक्षत्वात् न भवति / ___798 हितादिभिः // 3 // 171 // चतुर्थ्यन्तं नाम हितादिभिः समस्यते तत्पुरुषश्च समासः / गोभ्यो हितं गोहितम् / एवं गोसुखम् / गोरक्षितः / गोबलिः / आकृतिगणोऽयम् / तेन अश्वघास इत्यादि सिद्धम् / ___ 799 तदर्थार्थेन // 3 // 1172 / / तस्याश्चतुर्थ्या अर्थो यस्य स तदर्थः। चतुर्थ्यन्तं नाम तदर्थनार्थशब्देन नाम्ना सह समस्यते तत्पुरुषश्च समासः। पित्रे इदं पित्रथै पयः / ' डेऽर्थो वाच्यवत् ' इति वाच्यलिङ्गता / नित्यसमासश्चायम्। तदर्थेत्यर्थविशेषणं किम् / पित्रेऽर्थः। 800 पश्चमी भयायैः // 3 // 1 // 73 // पञ्चम्यन्तं नाम भयाद्यैर्नामभिः सह समस्यते तत्पुरुषश्च समासः। वृकाद् भयम् / एवं वृकभीः। आकृतिगणश्चायम् / तेन द्वीपान्तरानीतः इत्यादि सिद्धम् / बहुलाधिकारादिह न भवति /