SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 974 __ सिद्धहैमबृहत्प्रक्रिया. तत्पुरुषसमास निर्वाणगतः। बहुवचनमाकृतिगणार्थम् / तेन ओदनबुभुक्षुः इत्यादि सिद्धम् / 790 प्राप्तापन्नौ तयाच // 3 // 1 // 63 // पाप्तापन्नौ सामर्थ्यात् प्रथमान्तौ तया द्वितीयान्तेन नाम्ना सह समस्येते समासश्च तत्पुरुषः, तत्संनियोगे चानयोरन्तस्याकारः। प्राप्ता जीविकां प्राप्तजीविका। आपन्नजीविका। अत्वचनं स्त्रीलिङ्गार्थम् / प्राप्तापन्नयोः प्रथमोक्तत्वात् पूर्वनिपातार्थ वचनम् / श्रितादित्वाचानयोद्वितीयाया अपि प्रथमोक्तत्वेन पानिपातः। जीविकाप्राप्तः, जीविकापन्न इत्यपि भवति / 791 ईषद्गुणवचनैः // 3 / 1164 // ईषदित्येतदव्ययं गुणवचनैर्नामभिः सह समस्यते तत्पुरुषश्च समासः / ये गुणे वर्तित्वायोगे गुणिनि वर्तन्ते गुणमुक्तवन्तो गुणवचनाः / ईषदल्पं पिङ्गलः ईपत्पिङ्गलः / गुणवचनैरिति किम् / ईषत्कारकः। 792 तृतीया तत्कृतैः॥३॥१॥६६॥ तृतीयान्तं नाम तत्कृतैः-तृतीयान्तार्थकृतगुणवचनैर्नामभिः सह समस्यते, समासश्च तत्पुरुषः। शंकुलया कृतः खण्डः शंकुलाखंडः। कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते / तत्कृतैरिति किम् / अक्ष्णा काणः / काणत्वादि ह्यत्र काण्डादिना कृतम् नाक्ष्यादिना / अक्ष्यादिना परं संबंधमात्रम् / यदा तु तत्कृतत्वविवक्षायां कर्तरि करणे वा तृतीया तदा भवत्येव समासः। अक्षिकाण इत्यादि / गुणवचनैरित्येव / गोभिर्वपावान् / दध्ना पटुः / पाटवमित्यर्थः / न ह्येतौ पूर्व गुणमुक्त्वा सांप्रतं द्रव्ये वर्तेते इति गुणवचनौ न भवतः। अत एव शुद्धगुणवाचिनापि समासो न भवति / घृतेन पाटवम् , विद्यया धाष्टयम्-अत्रापि समासो भवतीति कश्चित् / अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति / शंकुलाखण्डश्चैत्रस्य / 793 चतस्रार्द्धम् // 3 / 1 // 66 // अर्धशब्दस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन सह समस्यते तत्पुरुषश्च समासः / अर्धेन कृताश्चतस्रोऽर्धचतस्रो मात्राः / चतस्रति किम् / अर्धे कृताश्चत्वारो द्रोणाः / 794 ऊनार्थपूर्वाद्यैः / / 3 / 1 / 67 // तृतीयान्तं नाम ऊनाथैः पूर्वादिभिश्च नामभिः समस्यते तत्पुरुषश्च समासः / माषेणोनं माषोनम् / माषविकलम् / मासेन पूर्वः मासपूर्वः। एवं मासावरः / आकृतिगणोऽयम् / तेन धान्येनार्थो धान्यार्थः इत्यादि सिद्धम् / पूर्वादियोगे यथायोगं हेत्वादौ तृतीया। 795 कारकं कृता // 3 // 1 // 38 // कारकवाचि नाम तृतीयान्तं सामर्थ्यात्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy