________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 173 काल इति किम् / द्रोणो धान्यस्य / काल इति चैकवचनं द्विगोः अन्यत्र प्रयोजकम् / तेन मासौ मासा वा जातस्येत्यत्र न भवति / द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः, त्रिमासजात इत्यपि भवति / द्विगुग्रहणं त्रिपदसमासार्थम् / अन्यथा नाम नाम्नेत्यनुत्तद्वयोरेव स्यात् / चकारो द्विगुरहितकालपरिग्रहार्थः। मेयैरिति किम् / मासश्चैत्रस्य / जातादेरेव हि मेयत्वम् / जन्मादेः प्रभृति जातादिसंबंधित्वेनैवादित्यगतेः परिच्छेदात, न द्रव्यमात्रस्य / क्तान्तेनैव च मेयेन प्रायेणायं समास इष्यते / तेन मासो गच्छतः इत्यादौ न भवति / अयमपि षष्ठीसमासापवादो योगः। ___ 785 स्वयं सामी क्तेन // 3 // 1 // 58 // स्वयं सामि इत्येते अव्यये तान्तेन नाम्ना सह समस्येते तत्पुरुषश्च समासः / स्वयंधौतौ पादौ / आत्मनेत्यर्थः / समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति / क्तेनेति किम् / स्वयं कृत्वा / सामिभुक्त्वा। 786 द्वितीया खट्वा क्षेपे // 3 // 1 // 51 // खट्त्येतनाम द्वितीयान्तं क्षेपे गम्यमाने क्तान्तेन नाम्ना सह समस्यते तत्पुरुषश्च समासः / क्षेपः समासार्थो न वाक्येन गम्यते इति नित्य एवायं समासः। खट्टारूढो जाल्मः। उत्पथपस्थित एवमुच्यते / खट्वा पल्यङ्क आचार्यासनं वा / अधीत्य गुरुभिरनुज्ञातेन हि खट्वारोढव्या। यत् त्वन्यदाखवारोहणं तदुत्पथप्रस्थानम्। उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्थानस्य, तेन सर्वोऽपि विमार्गपस्थितः खट्वारूढ उच्यते। क्षेप इति किम् / खट्वामारूढ उपाध्यायोऽध्यापयति / 787 कालः // 3 // 1 // 30 // कालवाचि नाम द्वितीयान्तं नाम्ना सह समस्यते तत्पुरुषश्च समासः / रात्रिमतिमृताः राव्यतिसृताः। मासं प्रमितो मासपमितः प्रतिपचन्द्रमाः। मासं प्रमातुमारब्ध इत्यर्थः / अव्याप्त्यर्थ आरंभः। 788 व्याप्तौ // 3 // 1161 // व्याप्तिर्गुणक्रियाद्रव्यैरत्यन्तसंयोगः। व्याप्तौया द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिनाम्ना सह समस्यते तत्पुरुषश्च समासः / क्ते नेति निवृत्तम् / मुहूर्त सुखं मुहूर्तमुखम् / व्याप्ताविति किम् / मासपूरको व्रजति / काल इत्येव / क्रोशं कुटिला नदी। 789 श्रितादिभिः // 3 // 1 // 32 // द्वितीयान्तं नाम श्रितादिभिर्नामभिः समस्यते तत्पुरुषश्च समासः / धर्म श्रितः धर्मश्रितः / संसारातीतः / नरकपतितः /