________________ 172 सिद्धहैमबृहत्पक्रिया. [तत्पुरुषसमास कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासवाधनार्थमसमांशे चार्द्धश्चासौ ग्रामश्चेति कर्मधारयनिषेधार्थ वचनम् / अंशिनेत्येव / पिप्पल्या अर्ध चैत्रस्य / अत्र चैत्रेण समासो न भवति / अभिन्नेनेत्येव / अर्धे पिप्पलीनाम् / कथमपिप्पल्यः?। अधै पिप्पल्या इत्यभिन्नेन समासे सत्येकशेषात् / अर्धराशिरित्यत्र राशेरभेदप्रतिभासाद् भविष्यति / अत्र समेंऽशे वर्तमानोऽर्धशब्द आविष्टलिङ्गी नपुंसकः / असमांऽशे तु पुंलिङ्गः / अन्ये त्वसमासे वाच्यलिङ्गमेनमाहुः / असमांश एव च षष्ठीसमासं समांशे तु नित्यमंशितत्पुरुषमिच्छन्ति / 782 जरत्यादिभिः // 31 // 56 // असमांशार्थ आरंभः / अर्धशब्दो जरत्यादिभिरभिन्नैः सह वा समस्यते तत्पुरुषश्च समासः। अ? जरत्या अर्धजरती / अर्धवैशसम् / अ?क्तम् / अर्धविलोकितम् / पक्षे जरत्यर्ध इत्याद्यपि भवति / बहुवचनमाकृतिगणार्थम् / इदमपि षष्ठीसमासवाधनार्थम् / 783 द्वित्रिचतुष्पूरणाग्रादयः // 3 // 1 // 56 // द्वि त्रि चतुर् इत्येते पूरणप्रत्ययान्ता अग्र इत्यादयश्च शब्दा अंशवाचिनोऽशिनाऽभिन्नेन वा समस्यन्ते तत्पुरुषश्च समासः। द्वितीयं भिक्षाया द्वितीयभिक्षा / एवं तृतीयभिक्षा। चतुर्थभिक्षा। तुर्यभिक्षा। तुरीयभिक्षा / अग्रं हस्तस्य अग्रहस्तः / एवं तलपादः / ऊर्ध्वकाय इत्यादि / पक्षे भिक्षाद्वितीयम्, भिक्षातृतीयम्, भिक्षाचतुर्थम् , भिक्षातुर्यम्, भिक्षातुरीयम्, हस्ताग्रम्, पादतलम्, कायोर्ध्वमित्यादि / नित्याधिकाराभावादेव पक्षे वाक्यस्य सिद्धत्वाद् वानुवृत्तिः पक्षे षष्ठीसमासार्थम् / तेन पूरणेन निषिद्धोऽपि षष्ठीसमासो भवति / यादिग्रहणं किम् / पञ्चमं भिक्षायाः। प्ररणेति किम् / द्वौ भिक्षायाः / अंशिनेत्येव / भिक्षाया द्वितीयं भिक्षुकस्य / अत्र भिक्षुकेण समासो न भवति / अभिन्नेनेत्येव / द्वितीय भिक्षाणाम् / अग्रादिराकृतिगणः। 784 कालो द्विगौ च मेयैः // 3 / 1 / 57 // अंशाशिनिवृत्ती तत्संबद्धं वेति निवृत्तम् / कालवाचि नामैकवचनान्तं द्विगौ च विषये वर्तमान मेयवाचिना नाम्ना समस्यते तत्पुरुषश्च समासः। मासो जातस्य मासजातः / एको मासो जातस्य एकमासजातः / कथं यहजातः ? / समाहारद्विगोर्जातेन काल इत्यंशेन समासेन भविष्यति / इह च यद्यपि विग्रहे जातादि कालस्य विशेषणं तथापि शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तेन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति।