________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 171 अब्राह्मणः अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्च प्रतीयते / अधर्मः, असित इति तद्विरोधी पाप्मा कृष्णश्च प्रतीयते। अनग्निः, अवायुरित्यग्निवायुभ्यामन्यः प्रतीयते / अवचनम् , अवीक्षणमिति वचनवीक्षणाभावः प्रतीयते / नन्वस्योत्तरपदार्थप्राधान्येन तल्लिङ्गसंख्यत्वे सति कथं भवन्त्यने के जलधेरिवोर्मयः' इत्यादी अनेके इति बहुवचनम् ? / असाधव एवेदृशाः शब्दाः। प्रसह्यप्रतिषेधे तु नज पदान्तरेण संबध्यते इति उत्तरपदं वाक्यवत् स्वार्थ एव वर्तते। तत्रासामर्थेऽपि यथाभिधानं बाहुलकात् समासः / सूर्यमपि न पश्यन्ति अमूथपश्या राजदाराः / अन्य इत्येव / न विद्यते मक्षिका यत्र सोऽमक्षिकाकः। मक्षिकाणामभावोऽमक्षिकम् / ____779 पूर्वापराधरोत्तरमभिन्ननाशिना // 3 // 1 // 52 // अंश एकदेशस्तद्वानंशी / पूर्वादयः शब्दाः सामर्थ्यादंशवाचिनोऽशिना समस्यन्ते अभिन्नेन-न चेत्सांऽशी भिन्नःप्रतीयते तत्पुरुषश्च समासः। पूर्वः कायस्य पूर्वकायः / एवम् अपरकायः / अधरकायः / उत्तरकायः / पूर्वादिग्रहणं किम् / दक्षिणं कायस्य / अभिन्नेनेति किम् / पूर्व छात्राणामामंत्रयस्व / प्रसज्यप्रतिषेधः किम् / पूर्व पाणिपादस्य / अत्र हि समाहारस्यैकत्वेऽपि पाणिः पादः इति भेदप्रतीतेन भवति / पूर्वग्राम इत्यादौ तु न ग्रामशब्दात् पासादादिभेदप्रतीतिः / अंशिनेति किम् / पूर्वी नाभेः कायस्य / ___780 सायाह्लादयः // 3 / 1 / 53 // सायानादयः शब्द। अंशिना तत्पुरुषेण साधवः / सायमनः सायानः। एवं मध्यंदिनम् / मध्यरात्रः। उपारता :पश्चिममात्रगोचरादित्यादयः।बहुवचनमाकृतिगणार्थम् / पूर्वे पश्चालाः इतिवत् समुदायवाचिनामंशेऽपि प्रवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् / पूर्वश्चासौ कायश्च पूर्वकायः। सायं च तदहश्च सायाह्नः इति / तत्पुरुषविधानं त्विह पूर्वत्र चाह्नः सायं कायस्य पूर्वमिति षष्ठीसमासबाधनार्थम् / ___781 समेंऽशेऽर्ध न वा // 3 // 1 // 54 // अर्धमित्येतत् समेंऽशे वर्तमानमंशिना अभिन्नेन वा समस्यते, तत्पुरुषश्च समासः। अर्ध पिप्पल्याः अर्धपिप्पली / पक्षे पिप्पल्यर्धम् / समेंऽश इति किम् / ग्रामाधः। अर्ध च सा पिप्पली चेति ___ननु सायमोऽव्ययत्वात् तृप्त' इत्यादिना षष्ठीसमासस्य निषेधेन प्राप्तिरेव नास्ति किमुच्यते षष्ठीसमासवाधनार्थमिति ? / उच्यते / यदाऽकारान्तः सायशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति /