________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 169 768 को कत्तत्पुरुषे // 3 / 2 / 130 // तत्पुरुष समासे स्वरादावुत्तरपदे कुशब्दस्य कदित्ययमादेशः स्यात् / कुत्सितः अश्वः कदश्वः। तत्पुरुष इति किम् / कुत्सिता उष्ट्रा अस्मिन् कूष्ट्रो देशः। 769 दुनिन्दाकृच्छे // 3 / 1 / 43 // दुरित्यव्ययं नाम निन्दायां कृच्छ्रे चार्थे वर्तमानं नाम्ना नित्यं समस्यते, स च समासस्तत्पुरुषः। निन्दितः पुरुषः दुष्पुरुषः / कुच्छ्रेण कृतं दुष्कृतम् / 770 सु पूजायाम् // 3 // 1 // 44 // सु इत्यव्ययं पूजायां वर्तमानं नाम्ना नित्यं समस्यते स च समासस्तपुरुषः। शोभनो राजा सुराजा / अन्य इत्येव / मद्राणां समृद्धिः सुमद्रम् / अत्राव्ययीभावत्वादम् / ___ 771 अतिरतिक्रमे च // 3 // 1145 // अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्यं समस्यते, स च समासस्तत्पुरुषः। अतिस्तुतं भवता। अतिसिक्तं भवतो / अतिक्रमेण स्तुतिसैको कृतावित्यर्थः। पूजायाम्-शोभनो राजा अतिराजा / बहुलाधिकारादतिक्रमे कचिन्न भवति / अति श्रुत्वा / ___ 772 आङल्पे // 31 // 46 // आङित्यव्ययमल्पेऽर्थे वर्तमानं नाम्ना नित्यं समस्यते, स च समासस्तत्पुरुषः / ईषत्कडारः आकडारः। आबद्धमायुक्तमित्यादौ तु क्रियायोगे गतिलक्षण एव समासः। __773 प्रात्यवपरिनिरादयो गतकान्तक्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः // 3 // 1 // 47 // प्रादयः शब्दा गताद्यर्थेषु वर्तमानाः प्रथमान्तेन, अत्यादयः क्रान्ताद्यर्थेषु द्वितीयान्तेन, अवादयः क्रुष्टाद्यर्थेषु तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थेषु चतुर्थ्यन्तेन, निरादयः क्रान्ताद्यर्थेषु पञ्चम्यन्तेन नाम्ना सह समस्यन्ते स च समासस्तत्पुरुषः / प्रादयः-प्रगत आचार्यः प्राचार्यः / एवं प्रान्तेवासी / अत्यादयः-अतिक्रान्तः खट्वामतिखट्वः / एवमुद्गतो वेलामुद्वेलः। अवादयःअवक्रुष्टः कोकिलया अवकोकिलः / एवं परिणद्धो वीरुद्भिः परिवीरुत् इत्यादि / पर्यादयः-परिग्लानोऽध्ययनाय पर्यध्ययनः। एवमुद्युक्तः संग्रामाय उत्संग्रामः इत्यादि। निरादयः-निष्क्रान्तः कौशांब्या निष्कौशांविः। एवमपगतः शाखाया अपशाखः इत्यादि / बहुलाधिकारात् षष्ठयन्तेनापि अन्तर्गतो गार्यस्य अन्तर्गाग्र्यः। सप्तम्यन्तेनापि-प्रतिष्ठितमुरसि प्रत्युरसम् / अत्र / 22