________________ 168 सिद्धहैमबृहत्पक्रिया. [तत्पुरुषसमास गतिसंज्ञे वा स्तः / उपाजेकृत्य, उपाजे कृत्वा / अन्वाजेकृत्य, अन्वाजे कृत्वा / दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः। - 763 स्वाम्येऽधिः // 3 / 1 / 13 / / अधीत्येतदव्ययं स्वामित्वे गम्यमाने कृगो धातोः संबंधि गतिसंज्ञं वा स्यात् / चैत्रं ग्रामेऽधिकृत्याधि कृत्वा वा गतः। स्वामिन कृत्वेत्यर्थः / स्वाम्य इति किम् / चिन्तया ग्राममधिकृत्य / उद्दिश्येत्यर्थः / सार्थकत्वे उपसर्गसंज्ञत्वान्नित्यं प्राप्ते पक्षे प्रतिषेधार्थ वचनम् / अनर्थकत्वे तु विधानार्थम् / प्रादिरुपसर्ग इति वर्तते, तेनोपसर्गसंज्ञाऽपि विकल्प्यत इति कृत्वाधीति माक्त्वेऽप्यनियमः। ____ 764 साक्षादादिश्चव्यर्थे // 2 / 1 / 14 // साक्षादादयः शब्दाचव्यर्थे वर्तमानाः कृगो धातोः संबंधिनो गतिसंज्ञा वा स्युः। साक्षात्कृत्य, साक्षात् कृत्वा / असाक्षाद्भूतं साक्षाद्भूतं कृत्वेत्यर्थः। एवं मिथ्याकृत्य, मिथ्या कृत्वा / व्यर्थ इति किम् / यदा साक्षाद्भूतमेव किंचित्करोति तदा साक्षात्कृत्वेत्येव भवति / च्च्यन्तानां तु 'ऊरी' आदिसूत्रेण नित्यमेव गतिसंज्ञा / 765 नित्यं हस्तेपाणावुद्धाहे // 3 / 1 / 16 // हस्ते पाणावित्येतौ सप्तम्येकवचनान्तप्रतिरूपकावव्ययौ / सप्तम्यन्तावनव्ययावित्येके / तावुद्वाहे दारकर्मण्यर्थे वर्तमानौ कृगो धातोः संबंधिनी गतिसंज्ञौ नित्यं स्तः। हस्तेकृत्य / पाणौकृत्य / भायर्या कृत्वेत्यर्थः। उद्वाह इति किम् / हस्ते कृत्वा कार्षापणं गतः / नित्यग्रहणाद्वानिवृत्तिः। 766 प्राध्वं बन्धे // 3 / 1 / 16 // प्राध्वमित्येतन्मकारान्तमव्ययमानुकूल्ये वर्तते / तच्चानुकूल्यं यदा बन्धहेतुकं भवति तदा बन्ध इत्युच्यते / अनेकार्थत्वाद्वा निपातानां मुख्य एवास्य बन्धोऽर्थः। तत्र वर्तमानः प्राध्वंशब्दः कृगो धातोः संबंधी गतिसंज्ञः स्यात् / प्राध्वंकृत्य / बंधनेनानुकूलं कृत्वेत्यर्थः / बंध इति किम् / प्राध्वं कृत्वा शकटं गतः। - 767 जीविकोपनिषदौपम्ये // 3 // 1 // 17 // जीविकोपनिषच्छब्दौ औपम्ये गम्यमाने कुगो धातोः संबंधिनौ गतिसंज्ञौ स्याताम् / जीविकाकृत्य / उपनिषत्कृत्य। जीविकामिवोपनिषदमिव कृत्वेत्यर्थः। औपम्य इति किम् / जीविकां कृत्वा. उपनिषदं कृत्वा गतः / इत्युक्ता गतिसंज्ञकास्तेषां च नाम्ना सह नित्यं तत्पुरुषः समासः / अथ कु इत्यव्ययस्योदाहरणम्-कुत्सिता ब्राह्मणः कुब्राह्मणः।