SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैम्बृहत्मक्रिया. 167 ___ 756 कणेमनस्तृप्तौ // 3 // 16 // कणे मनस् इत्येते अव्यये तृप्तौ गम्यमानायां धातोः संबंधिनी गतिसंज्ञे स्तः। तृप्तिःश्रद्धोच्छेदः। कणेहत्य पयः पिबति / मनोहत्य पयः पिबति / तावत् पिबति यावत्तृप्त इत्यर्थः। तृप्ताविति किम् / तंदुलावयवे कणे हत्वा गतः / मनोहत्वा गतः। चेतो हत्वेत्यर्थः / 757 पुरोऽस्तमव्ययम् // 3 // 17 // पुरस् अस्तम् इत्येते अव्यये धातोः संबंधिनी गतिसंज्ञे स्तः। पूर्वपर्यायः पुरः शब्दः। अनुपलब्ध्यर्थोऽस्तंशब्दः। पुरस्कृत्य गतः। अस्तंगत्य पुनरुदेति सविता / अव्ययमिति किम् / पुरः कृत्वा / नगरीरित्यर्थः। अस्तं कृत्वा काण्डं गतः / क्षिप्तमित्यर्थः। सकारोऽप्यत्र न भवति / 758 गत्यर्थवदोऽच्छः // 3 // 1 // 8 // अच्छेत्यव्ययमभिशब्दार्थे दृढार्थे च वर्तते / तत् गत्यर्थानां वदश्च धातोः संबंधि गतिसंझं स्यात् / अच्छगत्य / अच्छबज्य / अच्छोद्य / गत्यर्थवद इति किम् / अच्छ कृत्वा गतः। अव्ययमित्येव / उदकमच्छं गत्वा / 759 तिरोऽन्तौं // 31 // 9 // तिरः शब्दोऽन्तों व्यवधाने वर्तमानो धातोः संबंधी गतिसंज्ञः स्यात् / तिरोभूय / अन्तर्धाविति किम् / तिरो भूत्वा स्थितः / तिर्यग्भूत्वेत्यर्थः। 760 कृगो न वा // 31 // 10 // तिरस् इत्यव्ययमन्तों वर्तमानं कृगो धातोः संबंधि गतिसंज्ञं वा स्यात् / तिरस्कृत्य / तिरःकृत्य / पक्षे तिरः कृत्वा / अन्तर्धावित्येव / तिरःकृत्वा काष्ठं गतः। तिर्थगित्यर्थः / 761 मध्येपदोनवचनेमनस्यरस्यनत्याधाने // 33 // 11 // एतानि सप्तमीप्रतिरूपकाण्यव्ययानि अनत्याधानेऽर्थे वर्तमानानि कृगोधातोः संबंधीनि गतिसंज्ञानि वा स्युः। अत्याधानम् उपश्लेष आश्चर्य च / ततोऽन्यदनत्याधानम् / मध्येकृत्य, मध्ये कृत्वा / पदेकृत्य, पदे कृत्वा, निवचनेकृत्य, निवचने कृत्वा / निवचने वचनाभावः। वाचं नियम्येत्यर्थः। मनसि कृत्य, मनसि कृत्वा / उरसिकृत्य, उरसि कृत्वा / उभयत्र निश्चित्येत्यर्थः / अनत्याधान इति किम् / मध्ये कृत्वा धान्यराशि स्थिता हस्तिनः। अव्ययमित्येव / मध्ये कृत्वा वाचं तिष्ठतीत्यादि। 762 उपाजेवाजे // 31 // 16 // एते अव्यये सप्तम्येकवचनान्तप्रतिरू... पके स्वभावादुर्बलस्य भग्नस्य वा बलाधाने वर्तमाने कृगो धातोः संबंधिनी
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy