________________ 166 सिद्धहैमबृहत्प्रक्रिया. [तत्पुरुषसमास ऽव्ययीभावः / शुनः समीपे उपशुनं तिष्ठति / अत्र निपातनाद् वस्योत्वम् / गामन्वायतमनुगवम् / दैध्येऽनुरित्यव्ययीभावः / दैर्ध्यादन्यत्र न भवति / गवां पश्चादनुगु यानम् / इति श्रीसिद्धहैमबृहत्पक्रियायां समासप्रकरणे अव्ययीभावः समाप्तः / // अथ तत्पुरुषः॥ 752 गतिकन्यस्तत्पुरुषः // 3 // 1 // 42 // कु इत्यव्ययं पापाल्पयोर्वर्तते / गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं समस्यन्ते स च समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषसंज्ञः स्यात् / तत्र प्रथमं गतिसंज्ञका उच्यन्ते। 'ऊर्याद्यनुकरणच्चिडाचश्च गतिः' इत्युक्तमेव / ऊर्यादिः-ऊरीकृत्य / अनुकरण-खाटकृत्य / च्चि-शुक्लीकृत्य / डाजन्त-पटपटाकृत्य / उपसर्गः-प्रकृत्य / / 753 कारिका स्थित्यादौ // 3 / 1 // 3 // कारिकाशब्दः स्थित्यादावर्थे धातोः संबंधी गतिसंज्ञः स्यात् / स्थितिमर्यादा वृत्तिर्वा / आदिशद्वायत्नधावर्थनिर्देशौ गृह्यते / कारिकाकृत्य / स्थिति यत्नं क्रियां वा कृत्वेत्यर्थः / स्थित्यादाविति किम् / कारिकां कृत्वा कर्की कृत्वेत्यर्थः / ___ 754 भूषादरक्षेपेऽलंसदत् // 31 // 4 // एते यथासंख्यं भूपादरक्षेपेष्वर्थेषु वर्तमानाद्धातोः संबंधिनो गतिसंज्ञाः स्युः। भूषा मण्डनम् / अलंकृत्य / पीत्या संभ्रम आदरः। सत्कृत्य / भूषादिष्विति किम् / अलं कृत्वा मा कारीत्यर्थः / सत् कृत्वा, विद्यमानं कृत्वेत्यर्थः। असत् कृत्वा / अविद्यमानं कृत्वेत्यर्थः / 755 अग्रहानुपदेशेऽन्तरदः // 3 // 1 // 5 // अन्तर् अदस् इत्येतौ शब्दौ यथासंख्यमग्रहेऽनुपदेशे चार्थे गम्यमाने धातोः संबंधिनी गतिसंज्ञौ स्तः। अग्रहोऽस्वीकारः। अन्तर्हत्य, मध्ये हिंसित्वा शत्रून् गत इत्यर्थः। स्वयं परामर्शोऽनुपदेशो विशेषानाख्यानं वा / अदाकृत्यैतत् करिष्यतीति चिन्तयति / अग्रहानुपदेशे इति किम् / अन्तर्हत्वा मूषिकां श्येनो गतः / परिगृह्य गत इत्यर्थः। अदःकृत्वा गत इति परस्य कथयति / अदस्शद्धस्त्यदादौ / अव्ययमिति केचित् /