________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 165 सत्ववचनता?। अभ्रादेराकृतिगणत्वादप्रत्ययेन भविष्यति। अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षिशब्दस्याव्ययीभावे प्रयोगो मा भूदिति वचनम्। 744 अनः // 7 // 3 // 88 // अन्नन्तादव्ययीभावादत् समासान्तः स्यात् / 745 नोऽपदस्य तद्धिते // 74 / 61 // नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलुक् स्यात् / उपराजम् / उपतक्षम्। अध्यात्मम् / प्रत्यात्मम् / - 746 नपुंसकाद्वा // 73 / 89 // अन्नन्तं यन्नपुंसकं तदन्तादव्ययीभावादत् समासान्तो वा स्यात् / उपचर्मम् / उपचर्म / पूर्वेण नित्ये प्राप्ते विकल्पः / 747 गिरिनदीपौर्णमास्याग्रहायण्यपश्चमवर्यादा // 73 / 90 // गिरि नदी पौर्णमासी आग्रहायणी इत्येतच्छब्दान्तात् पञ्चमरहिता ये वास्तदन्ताच्चाव्ययीभावात् अत् समासान्तो वा स्यात् / गिरेरन्तः अन्तर्गिरम् , अन्तगिरि। गिरेः समीपमुपगिरम् , उपगिरि / एवमुपनदम् , उपनदि। उपपौर्णमासम् , उपपौर्णमासि / उपाग्रहायणम् , उपाग्रहायणि / अपञ्चमवर्दी-उपसुचम् , उपस्नुक, उपसमिधम् , उपसमित् / ___748 संख्याया नदीगोदावरीभ्याम् // 7 / 3 / 91 // संख्यावाचिनः परौ यौ नदीगोदावरीशब्दौ तदन्तादव्ययीभावादत् स्यात् / पञ्च नद्यः पश्चनदम् / द्विगोदावरम् / संख्याया इति किम् / उपनदि / अव्ययीभावादित्येव / एकनदी / इह नदीग्रहणं नित्यार्थम् / 749 शरदादेः // 7 / 3 / 92 // शरदायन्तादव्ययीभावदत् समासान्तः स्यात् / शरदः समीपमुपशरदम् / प्रतिशरदम् / उपत्यदम् / प्रतित्यदम्। शरदादिगणेऽपञ्चमवान्तपाठो नित्यार्थः / अव्ययीभावादित्येव / परमशरद् / 750 जराया जरस् च // 7 / 3 / 93 // जराशब्दान्तादव्ययीभावसमासादत् समासान्तः स्याद् तत्संनियोगे च जराशब्दस्य जरसादेशः। उपजरसम् / प्रतिजरसम् / 751 सरजसोपशुनानुगवम् // 7 / 394 // सरजस उपशुन अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते। सह रजसा सरजसमभ्यवहरति। साकल्ये.