SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 164 सिद्धहैमबृहत्मक्रिया. [अव्ययीभावसमास पदेऽव्ययीभावसमासे सादेशः स्यात् / इति सः / सचक्रं धेहि / चक्रेण सहैककालं युगपद्धेहीत्यर्थः / सदृगर्थे-सव्रतम् / व्रतस्य सदृशमित्यर्थः / संपत् सिद्धिः / सब्रह्म साधनाम् / संपन्नं ब्रह्मेत्यर्थः। साकल्यमशेषता / सतृणमभ्यवहरति। न किंचित्त्यजतीत्यर्थः / अन्तः समाप्तिः। सपिण्डैषणमधीते / पिण्डैषणापर्यन्तमधीत इत्यर्थः / अत्र समाप्तिरसकलेऽप्यध्ययने प्रतीयत इति साकल्ये अनन्तर्भावः। पूर्वपदार्थ इत्येव / समृद्धा मद्राः सुमद्राः। अव्ययमिति किम् / समीपं कुंभस्य / ___740 योग्यतावीप्सार्थानतिवृत्तिसादृश्ये // 3 / 1 / 40 // एष्वर्थेष्वव्ययं नाम नाम्नैकार्थे पूर्वपदार्थे समस्यतेऽव्ययीभावश्च समासः / योग्यतायाम्अनुरूपं चेष्टते / रूपस्य योग्यां चेष्टां कुरुते / वीप्सायाम्-प्रत्यर्थ शब्दा अभिनिविशन्ते / अर्थमर्थ प्रतीत्यर्थः / वीप्सायां द्वितीयाया विधानात् वाक्यमपि भवति / अर्थमर्थ प्रतीति / अर्थानतित्तिः पदार्थानतिक्रमः / यथाशक्ति पठ-शक्तेरनतिक्रमेणेत्यर्थः / एवं यथावलम् / नात्र विन्यासविशेष इति क्रमाद् भेदः / सादृश्येसशीलमनयोः। शीलस्य सादृश्यमित्यर्थः / सदृगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् / 741 यथाऽथा // 3 // 1 // 41 // थापत्ययरहितं यथेत्यव्युत्पन्नमव्ययं नाम नाम्ना सहै कार्थे नित्यं समस्यते पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः। यथारूपं चेष्टते / रूपानुरूपमित्यर्थः / यथाद्धमभ्यर्चय / ये ये वृद्धास्तानित्यर्थः। यथासूत्रमनुतिष्ठति / सूत्रानतिवृत्त्येत्यर्थः। अथा इति किम् / यथा चैत्रः तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थ वचनम् / . ___ 742 द्विदण्ड्यादिः // 7 / 375 // द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवः। द्वौ दण्डावस्मिन् प्रहरणे द्विदण्डि प्रहरति / तिष्ठद्ग्वादित्वादव्ययीभावः। एवं द्विमुसलि इत्यादि। क्रियाविशेषणाचान्यत्र न भवति। द्वौ दण्डावस्यां शालायां द्विदण्डा / द्विमुसला। 743 प्रतिपरोऽनोरव्ययीभावात् / / 7 / 3 / 87 // प्रति परस् अनु इत्येतत्पूर्वो योऽक्षिशद्धस्तदन्तादव्ययीभावसमासादत् समासान्तः स्यात् / अक्षिणी प्रति प्रत्यक्षम् / परसमानार्थः परस्शब्दोऽव्ययम् / अक्ष्णोः परं परोक्षम् / अत्ययेऽव्ययीभाकः। अक्ष्णः समीपमन्वक्षम्। कथं प्रत्यक्षोऽर्थः परोक्षः काल इत्यादेरव्ययीभावस्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy