SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 163 737 संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ // 3 // 1 // 38 // संख्यावाचि नामाक्षशलाके च द्यूतविषयेऽन्यथावर्तने वर्तमानेन परिणा नाना सहकायें नित्यं समस्यन्तेऽव्ययीभावश्च समासः / वर्तने चैषां कर्तृत्वात् तृतीयान्तत्वम् / अक्षशलाकयोस्त्वेकवचनान्तयोरेवेष्यते / पश्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति / तत्र यदा सर्वे उत्ताना अवाञ्चो वा पतन्ति तदा पातयितुजयः / अन्यथापाते पराजयः / एकेनाक्षेण शलाकया वा न तथावृत्तं यथा पूर्व जये एकपरि / द्विपरि / त्रिपरि / परमेण चतुष्परि / पञ्चसु त्वेकरूपेषु जय एव भवति / अक्षेणेदं न तथा वृत्तं यथा पूर्व जये अक्षपरि / शलाकापरि / संख्यादीति किम्। पाशकेन न तथा वृत्तम् / परिणेति किम् / अक्षेण परिवृत्तम् / द्यूत इति किम्। रथस्याक्षेण न तथा वृत्तम् / अन्यथावृत्ताविति किम् / पञ्चपरीति मा भूत् / केचित् समविषमयूते सममित्युक्ते यदा विषमं भवति तदा अक्षपरि, शलाकापरीति प्रयुज्यत इत्याहुः / अन्ये पूर्व पदमाहूतं तच्च पतितमिष्टं सिद्धं पुनस्तदाहूतं यदा न पतति तदायं प्रयोगोऽक्षपरि शलाकापरीत्याहुः / 738 विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक्संपत्साकल्यान्तेऽव्ययम् // 31 // 39 // विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहकार्य सति पूर्वपदार्थेऽभिधेये नित्यं समस्यते स च समासोऽव्ययीभावसंज्ञः / विभक्तिविभक्त्यर्थः कारकम् / अधिस्त्रि निधेहि / स्त्रीषु निधेहीत्यर्थः / समीपे-उपकुंभम् / कुंभस्य समीप इत्यर्थः / ऋद्धेराधिक्यं समृद्धिः। सुमद्रम् / मद्राणां समृद्धिरित्यर्थः। विगता ऋद्धिय॒द्धिः-ऋद्धयभावः / दुर्यवनं-यवनानामृद्धयभाव इत्यर्थः / अर्थाभावो धर्मिणोऽसत्त्वम् / निर्मशिकम् / मक्षिकाणामभाव इत्यर्थः / अत्ययोऽतीतत्वम्, सत एवातिक्रान्तत्वम् / अतिवर्षम् / वर्षाणामतीतत्वमित्यर्थः / असंप्रतीति वर्तमानकाले उपभोगादेः प्रतिषेधः / अतिकंवलम्। कंबलस्योपभोग प्रति नायं काल इत्यर्थः / पश्चादर्थेअनुरथं याति / रथस्य पश्चादित्यर्थः / क्रम आनुपूर्व्यम् / अनुज्येष्ठं प्रविशन्तु / ज्येष्ठानुक्रमेणेत्यर्थः / ख्यातिः शब्दप्रथा / इतिभद्रबाहु / भद्रबाहुशब्दो लोके प्रकाशते इत्यर्थः / युगपदेककालार्थः / चक्रेण युगपदिति विग्रहे युगपदर्थस्य सहेत्यव्ययस्य चक्रेणेति नाम्ना समासे कृते / 739 अकालेऽव्ययीभावे // 3 / 2 / 146 // सहशब्दस्याकालवाचिन्युत्तर
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy