________________ 162 सिद्धहैमबृहत्प्रक्रिया [अव्ययीभाव समास अव्ययीभावश्च समासः। अभि अग्निम् अभ्यग्नि / प्रत्यग्निं प्रत्यग्नि शलभाः पतन्ति / अग्निं लक्षीकृत्याभिमुखं पतन्तीत्यर्थः। लक्षणेनेति किम् / स्रुघ्नं प्रति गतः / प्रतिनिवृत्य पुनः स्रुघ्नमेवाभिमुखं गतः इत्यर्थः। अभिपतीति किम् / येनाग्निस्तेन गतः / आभिमुख्य इति किम् / वृक्षमभि विद्योतते विद्युत् / पूर्वपदार्थ इत्येव / अभिमुखोऽङ्को यासां ता अभ्यङ्का गावः। ___733 दैर्येऽनुः // 3 // 1 // 34 // अनु इत्येतनाम दैर्ये आयामविषये यल्लक्षणं तद्वाचिना नाम्नैकार्थं सति पूर्वपदार्थेऽभिधेये समस्यते स च समासोऽव्ययीभावसंज्ञः / अनु गङ्गां दीर्घा अनुगङ्गं वाराणसी / गङ्गाया लक्षणभूताया आयामेन वाराणस्या आयामो लक्ष्यते / एवमनुयमुनं मथुरा / दैये इति किम् / वृक्षमनु विद्योतते विद्युत् / लक्षणेनेत्येव / लक्ष्येण वाराणस्यादिना मा भूत् / 734 समीपे // 3 // 1 // 35 / / अनु इत्येतनाम समीपेऽर्थे वर्तमानमर्थात् समीपिवाचिनैकार्थे सति पूर्वपदार्थेऽभिधेये समस्यते, स च समासोऽव्ययीभावसंज्ञः। अनु वनस्य अनुवनमशनिर्गता / अनोरव्ययत्वात् -- विभक्तिसमीप ' इत्यादिनैव सिद्धे विकल्पार्थम् / तेन वाक्यमपि भवति / पृथग्वचनं लक्षणेनेत्यस्य निवृत्त्यर्थम् / 735 तिष्ठग्वित्यादयः // 3 // 1 // 36 // तिष्ठद्गुप्रभृतयः समासशब्दा अव्ययीभावसंज्ञाः स्युः, यथायोगमन्यपदार्थ पूर्वपदार्थे चाभिधेये। तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय वत्सेभ्यो निवासाय जलपानार्थ वा स कालस्तिष्ठद्गु / अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् / तिष्ठदग्वादिराकृतिगणः / मूत्रे इतिशब्दः स्वरूपपरिग्रहार्थः / तेनेह समासान्तरं न / परमं तिष्ठद्गु इत्यादि वाक्यमेव / अत एव प्रदक्षिणसंप्रतिभ्यां सह नसमासेन सिद्धावप्रदक्षिणासंपत्योः पाठः / इजन्तस्य च तिष्ठद्ग्वादिपाठः ‘इज् युद्धे' इत्यनेनेजन्तस्य समासान्तरपतिषेधार्थः, द्विदण्डयादेरव्ययीभावार्थश्च / अन्ये तु परपदेनैव समासं प्रतिषेधन्ति, तन्मते परमतिष्ठद्गु इत्यादयोऽपि साधवः।। 736 नित्यं प्रतिनाल्पे // 3 // 1 // 37 // अल्पेऽर्थे वर्तमानेन प्रतिना नाम्ना नाम नित्यं समस्यतेऽव्ययीभावश्च समासः स्यात् / शाकस्याल्पत्वं शाकमति / सूपस्य मात्रा सूपप्रति / अल्प इति किम् / वृक्षं प्रति विद्योतते विद्युत / नित्यग्रहणं वाक्यनिवृत्त्यर्थम् / तेनान्यत्र समासो वाक्यं च भवति /