________________ 161 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. लक्षणसंतानो वंशः, तत्र भवो वंश्यः। स इहाद्यः कारणपुरुषो गृह्यते / तद्वाचिना नाम्ना संख्यावाचि नाम समस्यते, पूर्वपदस्यार्थेऽभिधेये स च समासोऽव्ययीभावः। एको मुनिर्वैश्यो व्याकरणस्य एकमुनि व्याकरणस्य / एवं द्विमुनि, त्रिमुनि व्याकरणस्य / यदा तु विद्यया तद्वतामभेदविवक्षा तदैकमुनि व्याकरणं, द्विमुनि व्याकरणमित्यादि सामानाधिकरण्यं भवति। पूर्वार्थ इति किम् / द्वौ मुनी वंश्थावस्य द्विमुनि, द्विमुनिकं व्याकरणम् / अत्रान्यपदार्थे बहुव्रीहिरेव / अन्ये तु पूर्वार्थ इति विशेषं नेच्छन्ति, तन्मते एकश्चासौ मुनिश्चेति कर्मधारयप्रसङ्गे, द्वौ मुनी समाहृताविति द्विगुप्रसङ्गे, एको मुनिर्वैश्योऽस्येति बहुव्रीहिप्रसङ्गे चाव्ययीभाव एव समासो भवति / ___729 पारे मध्येऽग्रेऽन्तः षष्ठया वा // 3 // 1 // 30 // पारेप्रभृतीनि नामानि षष्ठयन्तेन नाम्ना सह पूर्वपदार्थे वा समस्यन्तेऽव्ययीभावश्च समासः, तत्संनियोगे चाद्यानां त्रयाणामेकारान्तता निपात्यते / पारं गङ्गायाः पारेगङ्गम् / अन्तगिरेः अन्तर्गिरम् , अन्तगिरि। (वक्ष्यमाणेन वा समासान्तोऽत् ) वा वचनात् पक्षे षष्ठीससमासोऽपि भवति / गंगायाः पारं गंगापारम् / गंगामध्यम् / वनाग्रम् / गिर्यन्तः। षष्ठयेति किम् / पारं शोभनम् / ___ 730 यावदियत्वे // 3 / 1 / 31 // इयत्त्वमवधारणम् / तस्मिन् गम्यमाने यावदिति नाम नाम्ना समस्यते, पूर्वपदार्थेऽव्ययीभावश्च समासः स्यात् / यावन्त्यमत्राणि यावदमत्रमतिथीन् भोजय / यावन्त्यमत्राणीति नितिपरिमाणेनामत्रादिना तावन्त इति अतिथिपरिमाणमिहावधार्यते। इयत्त्व इति किम् / यावदत्तं तावद्भुक्तम्। कियद्भुक्तमिति नावधारयति।यावदित्यव्ययमनव्ययं चेह गृह्यते / अव्ययमेवेत्यन्ये। ___731 पर्यपाङ्घहिरच् पञ्चम्या // 3 // 1 // 32 // पर्यादीनि नामानि पञ्चम्यन्तेन नाम्ना सहैकार्थे पूर्वपदार्थेऽभिधेये समस्यन्ते स च समासोऽव्ययीभावसंज्ञः। परि त्रिगर्तेभ्यः परित्रिगर्तम् / आ ग्रामात् आग्रामम् / बहिर्गामात् बहिर्गामम् / पाग्ग्रामात् प्राग्रामम् / पर्यादिसाहचर्यादञ्चतिर्धेनलुबन्तोऽव्ययं गृह्यते, तेनेह न भवति-भाङ् ग्रामात् चैत्रः। पतिपदविहितायाश्च पञ्चम्या ग्रहणादिह न, अपशाखः। पञ्चम्येति किम् / परि वृक्षं विद्योतते विद्युत / 732 लक्षणेनाभिप्रत्याभिमुख्ये // 3 / 1 / 33 // लक्षणं चिन्हम् / तद्वाचिना नाम्ना आभिमुख्य वर्तमानावभिप्रत्यैकार्थे सति पूर्वपदार्थेऽभिधेये समस्येते, 21