________________ 160 सिद्धहैमबृहत्प्रक्रिया. [अव्ययीभावसमास च गृहीत्वा युद्धमनेन। सरूपेणेति किम् / हस्ते च पादे च गृहीत्वा कृतं युद्धम् / युद्ध इति विषयनिर्देशात् युद्धोपाधिकायामन्यस्यामपि क्रियायां भवति / बाहूबाहवि व्यासजेताम्। ___722 नदीभिनाम्नि // 3 / 1 / 27 // नदीवाचिभिर्नामभिर्नाम समस्यते नाम्नि-संज्ञायामन्यपदार्थे स च समासोऽव्ययीभावसंज्ञः स्यात् / उन्मत्ता गङ्गा यत्र स इति विग्रहेऽनेन समासे विभक्तिलपि, अव्ययीभावस्य क्लीबत्वास्वत्वम् / नामसंज्ञायां स्यादिः। ततश्च / 723 अमव्ययीभावस्याऽतो पञ्चम्याः॥३॥२॥२॥ अव्ययीभावसमासस्याकारान्तस्य संबंधिनः स्यादेरमित्ययमादेशः स्यात् अपञ्चम्याः-पञ्चमी च वर्जयित्वा / उन्मत्तगङ्गं देशः। 724 वा तृतीयायाः // 32 // 3 // अकारान्तस्याव्ययीभावस्य संबंधिन्यास्ततीयायाः स्थाने वा अम् स्यात् / उन्मत्तगङ्गम्, उन्मत्तगङ्गेन / 725 सप्तम्या वा // 3 // 14 // अकारान्तस्याव्ययीभावस्य संबंधिन्याः सप्तम्या अमादेशो वा स्यात् / योगविभाग उत्तरार्थः। इत्यनेन सप्तम्यां विकल्पेनामादेशे प्राप्ते / 726 ऋद्धनदीवंश्यस्य!।३।२।५॥ ऋद्धं समृद्धम् / यस्य समृद्धिः सुशद्वादिना धोत्यते तदन्तस्य नद्यन्तस्य वंश्यान्तस्य चाकारान्तस्याव्ययीभावस्य संबंधिन्याः सप्तम्याः स्थानेऽमादेशः स्यात् / नित्यार्थं वचनम् / उन्मत्तगङ्गं देशे वसति / एवं लोहितगङ्गम् / शनैर्गङ्गम् / तूष्णींगङ्गम् ।प्रतिपदोक्तस्यैव ग्रहणादिह न भवति / उपगङ्गे / पूर्वेण तु विकल्पो भवत्येव / 727 संख्या समाहारे // 3 // 1 // 28 // अन्यपदार्थ इति निवृत्तम् / संख्यावाचि नाम नदीवाचिभिर्नामभिः सह समस्यते समाहारे गम्यमाने स च समासोऽव्ययीभावसंज्ञः स्यात् / द्वयोर्यमुनयोः समाहारो द्वियमुनम् / एवं त्रियमुनम् / समाहार इति किम् / एका नदी एकनदी। द्विगुवाधनार्थ वचनम् / अन्ये तु पूर्वपदार्थप्राधान्येऽव्ययीभावः, समाहारे तु द्विगुरेवेत्याहुः। ___ 728 वंश्येन पूर्वार्थे // 3 // 1 // 29 // विद्यया जन्मना वा प्राणिनामेक