________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 159 पुत्रे वर्तमानस्य सामर्थ्याद् बहुव्रीहौ समासे मात इत्यकारान्त आदेशः स्यात् अर्हेमातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम् / कचोऽपवादः। गार्गी माता यस्य तस्यामंत्रणं हे गार्गीमात / अत्र पुत्रः संभावितोत्कर्षेया श्ला घया मात्रा तत्पुत्रयोग्यतया प्रशस्यते / अर्ह इति किम् / अरे गार्गीमातृक / आमंत्र्य इति किम् गार्गीमातृकः सिनेति किम् / हे गार्गीमातृको। इति श्रीसिद्धहैमबृहत्पक्रियायां समासप्रकरणे बहुव्रीहिसमासः समाप्तः // // अथाव्ययीभावः॥ 718 तत्रादाय मिथस्तेन प्रहत्येति सरूपेण यद्धेऽव्ययीभाव: // 3 // 1 // 26 // तत्रेति सप्तम्यन्तं नाम मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहत्येति क्रियाव्यतिहारे सरूपेण समानरूपेण नाम्ना युद्धे विषयेऽन्यपदार्थे समस्यते, स च समासोऽव्ययीभावसंज्ञः स्यात् / केशेषु केशेषु गृहीत्वा कृतं युद्धमिति विग्रहेऽनेन समासे विभक्तेलपि / 719 इज् युद्धे // 73 / 74 // युद्धे यः समासो विहितस्तस्मादिच समासान्तः स्यात् / इतीचि कृते / ____730 इच्यस्वरे दीर्घ आच // 3 / 2 / 72 // इच्प्रत्ययान्तेऽस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशः स्यात् / केशाकेशि इति भवति / ततश्च 'द्वन्द्वैकखाव्ययीभावौ ' इति लिङ्गानुशासनोक्तेरव्ययीभावस्य क्लीवलम्। नामसंज्ञायां च स्यादिः। - 721 अनतो लुए // 3 // 2 // 6 // अकारान्तं वर्जयित्वान्यस्याव्ययीभावस्य संबंधिनः स्यादे प् स्यात् / केशाकेशि / दण्डैर्दण्डैश्च मिथः प्रहृत्य कृतं युद्धं दण्डादण्डि / एवं यष्टीयष्टि, यष्टायष्टि / मुष्टीमुष्टि, मुष्टामुष्टि। तत्रेति तेनेति किम् / केशाश्च केशाश्च गृहीत्वा कृतं युद्धं, मुखं च मुखं च पहृत्य कृतं युद्धम् / आदायेति पहृत्येति किम् / केशेषु च केशेषु स्थित्वा कृतं युद्धं गृहकोकिलाभ्याम् / दण्डैश्च