SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 157 इति न्यायस्याभावज्ञापनार्थः', तेन निषादको जातो नैपादकर्षक इत्यादाविकणि इस्वः सिद्धः / अथ ऋन्नित्यदित इत्यत्र नित्यग्रहणं किम् / पृथुश्रीः, पृथुश्रीकः। पूर्वत्र स्त्रियां विधिरिति योगविभागः। केचिन्नित्यदितां ङयूङन्तानामेव कचमिच्छन्ति, तन्मते बहुतन्त्रीः, बहुतन्त्रीक इति शेषाद्वेति विकल्पः / 705 दध्युरःसपिमधूपानच्छालेः // 7 / 3 / 172 // दधि उरस् सर्पिस् मधु उपानह शालि इत्येतदन्ताद् बहुव्रीहेः कच् स्यात् / प्रियदधिकः / प्रियोरस्कः / प्रियसर्पिष्कः / प्रियमधुकः / पियोपानत्कः / प्रियशालिकः / 706 पुमनडुन्नौपयोलक्ष्म्या एकत्वे // 7 // 3 / 173 / / एकत्वविषये पुम्स अनडुह ना पयस लक्ष्मीशब्दास्तदन्ताद् बहुव्रीहे: कच् स्यात् / प्रियः पुमानस्य प्रियपुंस्कः / प्रियानडुत्कः / प्रियनौकः। प्रियपयस्कः / प्रियलक्ष्मीकः। एकत्व इति किम् / द्विपुमान् , द्विपुंस्कः / बहनड्वान्, बबनडुत्कः इत्यादि / केचिल्लक्ष्मीशब्दात् द्वित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति। अपरे तु तुल्ययोगेऽपि। सलक्ष्मीको विनाशितः। 707 नमोऽर्थात् // 73 / 174 / नञः परो योऽर्थशब्दस्तदन्ताद् बहुव्रीहेः कच् स्यात् / न विद्यतेऽर्थो यस्यानर्थकं वचः / नत्र इति किम् / अपाथम्, अपार्थकम् / __ 708 शेषाद्वा / / 7 / 3 / 175 // यस्माद् बहुव्रीहेः समासान्तः प्रत्यय आदेशो वा न विहितस्तस्माच्छेषात् कज्वा स्यात् / 709 नवापः // 2 / 4 / 106 आपः कचि परे ह्रस्वो वा स्यात् / न कचीति निषेधे माप्ते पक्षे ह्रस्वार्थमिदम् / प्रिया खट्वा यस्य स मियखट्वकः, पियखट्वाकः। पक्षे पियखट्टः / एवं बहुमालकः, बहुमालाकः। बहुमालः। शेषादिति किम् / व्याघ्रपात् / असति शेषग्रहणे पक्षे परत्वात् कच् स्यात् / 710 न नानि // 7 // 3 / 176 // संज्ञायां विषये कच् समासान्तो न स्यात्, बहुदेवदत्तः / एवंनामा ग्रामः / 711 ईयसोः // 73 / 177 // ईयस्वन्तात् समासात् कच न स्यात् / बहुश्रेयान् / लिङ्गविशिष्टस्यापि ग्रहणाद् बहुश्रेयसी /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy