________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. नुषः खेभ्यो निश्चचार हुताशनः' इति ? / संज्ञात्वविवक्षायामुत्तरेण विकल्पो 688 वा नानि // 7 // 3 // 189 // धनुस्शब्दस्य बहुव्रीहौ धन्वन्नित्ययमादेशः समासान्तः स्यात् नाम्नि-संज्ञायां विषये / पुष्पधन्वा, पुष्पधनुः / 689 खरखुरान्नासिकाया नस् // 7 / 3 / 160 // खरखुर इत्येताभ्यां परस्य नासिकाशब्दस्य बहुव्रीहौ नस् इत्ययमादेशः समासान्तः स्यात् / 690 पूर्वपदस्थान्नाम्न्यगः // 2 // 364 // पूर्वपदस्थाद्रपृवर्णादगकारान्तात् इत्यनेन च णत्वम् / खरा खरस्येव वा नासिका अस्य खरणाः / खुर इव नासिकाऽस्य खुरणाः। 691 अस्थूलाच नसः // 7 // 3 // 161 / / स्थूलशब्दवर्जितात् पूर्वपदात खरखुरशब्दाभ्यां च परस्य नासिकाशब्दस्य बहुव्रीही नसादेशः समासान्तः स्यात् संज्ञायाम् / दुरिव नासिकाऽस्य द्रणसः / खरणसः। खुरणसः / अस्थूलादिति किम् / स्थूलनासिकः। नाम्नीत्येव / तुङ्गा नासिकाऽस्य तुङ्गनासिकः / कथं गोनासः ? / यद्यस्ति नासाशब्देन भविष्यति। चकारः पूर्वेणास्य बाधानिवृत्त्यर्थः / 692 उपसर्गात् / / 7 / 3 / 162 / / उपसर्गात् परस्य नासिकाशब्दस्य बहुव्रीहौ नसादेशः समासान्तः स्यात् / असंज्ञार्थं वचनम् / 693 नसस्य // 2 // 3 // 65 // पूर्वपदस्थाद्रपूवर्णात् परस्य नसशब्दसंबंधिनो नकारस्य णः स्यात् / इति णत्वे। प्रगता प्रद्धा वा नासिका अस्य प्रणसं मुखम् / उन्नता उद्गता वा नासिकाऽस्य उन्नसं मुखम् / 694 वे खुनग्रम् // 7 // 3 // 163 // वेरुपसर्गात्परस्य नासिकाशब्दस्य बहुव्रीहौ खु न न इत्येते आदेशाः समासान्ताः स्युः / विगता नासिकाऽस्य विखुः, विनः, विप्रः। उपसर्गादित्येव / वेः पक्षिण इव नासिकाऽस्य विनासिकः। 695 जायाया जानिः / / 73 / 164 // जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तः स्यात् / युवतिर्जायाऽस्य युवजानिः।