________________ 154 सिद्धहैमबृहत्पक्रिया. [ बहुव्रीहिसमास एवंनामा काचित् / स्त्रियामिति किम् / वज्रदन्तः / नाम्नीति किम् / समदन्ती। असमास उत्तरत्र नाम्नीत्येतावतोऽनुवृत्त्यर्थः / 682 श्यावारोकादा // 7 // 3 // 153 // एताभ्यां परो यो दन्तशब्दस्तस्य बहुव्रीहौ दत्रादेशो वास्यान्नान्नि। श्यावाःकपिशा दन्ता अस्य श्यावदन् , श्यावदन्तः। अरोका निर्दीप्तयो निश्छिद्रा वा दन्ता अस्य अरोकदन् , अरोकदन्तः। नाम्नीत्येव / श्यावदन्तः / अरोकदन्तः। 683 वाग्रान्तशुद्धशुभ्रषवराहाहिमूषिकशिखरात् // 7 // 3 / 154 // अग्रान्तेभ्यः शुद्ध शुभ्र वृष वराह अहि मूषिक शिखर इत्येतेभ्यश्च परो यो दन्तशब्दस्तस्य बहुव्रीहौ दत्रादेशो वा स्यात् / कुड्मलाग्रमिव दन्ता अस्य कृड्मलाग्रदन् , कुड्मलाग्रदन्तः / शुद्धा दन्ता अस्य शुद्धदन् , शुद्धदन्तः / शुभ्रदन् , शुभ्रदन्तः / वृषस्येव दन्ता अस्य वृषदन् , वृषदन्तः / एवं वराहदन् , वराहदन्तः / अहिदन् , अहिदन्तः / मूषिकदन् , मूषिकदन्तः / शिखरदन् , शिखरदन्तः / योगविभागान्नाम्नीति निवृत्तम् / 684 संप्राजानो ज्ञौ / / 73 / 155 / / संप्र इत्येताभ्यां परस्य जानुशब्दस्य बहुव्रीहौ जुज्ञ इत्येतावादेशौ समासान्तौ स्याताम् / संगते जानुनी अस्य संजः, संज्ञः। प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी अस्य प्रजुः, प्रज्ञः। संपादिति किम् / विजानुः / वचनभेदायथासंख्याभावः / 685 वोर्थात् // 7 / 3 / 156 // ऊर्ध्वशद्वात् परो यो जानुशद्धस्तस्य बहुबीहौ जुज्ञ इत्येतौ वा स्याताम् / अर्जे जानुनी अस्य ऊर्ध्वजः, ऊर्ध्वज्ञः, ऊर्ध्वजानुः। 686 सुहृदुहृन्मित्रामित्रे // 73 / 157 / / सुहृत् दुर्हदिति सुपूर्वस्य दष्पूर्वस्य च हृदयशदस्य बहुव्रीहौ यथासंख्यं मित्रे सख्यौ अमित्रे शत्रौ चाभिधेये हृदित्ययमादेशः समासान्तः स्यात् / शोभनं हृदयं यस्य सुहृन्मित्रम् / दुहृदमित्रः। मित्रामित्र इति किम् / सुहृदयो मुनिः / दुर्हृदयो व्याधः। 687 धनुषो धन्वन् // 7 / 3 / 158 // धनुः शब्दस्य बहुव्रीहौ धन्वन् इत्ययमादेशः समासान्तः स्यात् / शाङ्ग धनुरस्य शार्ङ्गधन्वा / कथं ' गाण्डीवध