________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 153 तीव्रगंधं हिङ्गु / गंधादिति किम् / सुरसः। गुण इति किम् / शोभना गंधाः कुष्ठादयोऽस्य सुगंध आपणिकः / इदिति तकार उच्चारणार्थः। 674 वागन्तौ // 7 / 3 / 145 // स्वादिभ्यः पर आगन्तौ-आहार्ये गुणे वर्तते यो गंधशद्धस्तदन्ताद् बहुव्रीहेरित् वा स्यात् / सुगंधि, सुगंधं वा शरीरम् / 675 वाल्पे // 7 // 3 // 146 // अल्पेऽर्थे यो गंधशब्दस्तदन्ताद् बहुव्रीहेरित् वा स्यात् / सूपस्य गंधो मात्रास्मिन् सूपगंधि, सूपगंधं भोजनम् / अल्पम्पमित्यर्थः। असामानाधिकरण्येऽपि उष्ट्रमुखादित्वाद् बहुव्रीहिः / 676 वोपमानात् // 7 / 3 / 147 // उपमानात् परो यो गंधशब्दस्तदन्ताद् बहुव्रीहेरिद् वा स्यात् / उत्पलस्येव गंधोऽस्य उत्पलगंधि, उत्पलगंधं वा मुखम् / 677 पात्पादस्याहस्त्यादेः // 73 // 148 // हस्त्यादिवर्जितादुपमानात् परस्य पादशद्धस्य बहुब्रीही पादित्ययमादेशः समासान्तः स्यात् / व्याघ्रस्येव पादावस्य व्याघ्रपात् / अहस्त्यादेरिति किम् / हस्तिन इव पादावस्य हस्तिपादः / 678 कुंभपद्यादिः // 7 // 3149 // कुंभपद्यादयः शद्धाः कृतपात्समासान्ता ङयन्ता एव बहुव्रीहयो निपात्यन्ते / कुंभाविव पादावस्याः कुंभपदी / अत्र कुंभपद्यादिषु ये उपमानपूर्वास्तेषां पूर्वेण संख्यादीनां चोत्तरेण सिद्धे यदिह वचनं तेन ' वा पादः' इति डीविकल्पो न भवति। कथमेकपादिति ? / केचिदिहैकपदीशब्दं न पठन्ति / __679 सुसंख्यात् // 7 / 3 / 150 // सुपूर्वस्य संख्यापूर्वस्य पादशब्दस्य बहुबीहौ पादित्ययमादेशः समासान्तः स्यात् / शोभनौ पादावस्य सुपात् / द्विपात् / स्त्रियां तु वा पाद इति पक्षे ङीः / सुपदी, सुपात् / द्विपदी, द्विपात् / 680 वयसि दन्तस्य दत् // 73 / 151 // सुपूर्वस्य संख्यापूर्वस्य च दन्तशब्दस्य बहुव्रीहौ वयसि गम्यमाने दत् इत्ययमादेशः समासान्तः स्यात् / शोभनाः सुजाताः समस्ता वा दन्ता अस्य सुदन् कुमारः। द्वौ दन्तावस्य द्विदन् बालः / ऋकारो ङन्याद्यर्थः। 681 स्त्रियां नाम्नि // 7 / 3 / 152 // बहुव्रीहौ स्त्रियां नाम्नि विषये दन्तशद्वस्य दत्रादेशः समासान्तः स्यात् / अय इव दन्ता अस्या अयोदती। फालदता /