SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 152 सिद्धहैमबृहत्पक्रिया. [बहुव्रीहिसमास सामान्यवानन्यपदार्थः। कथं पितृस्थानीयः ? / स्थानीयं दुर्गमितिवत् स्थीयतेऽस्मिन्निति स्थानीय इत्यधिकरणप्रधानेन स्थानीयशब्देन भविष्यति / पितेव स्थानीयः पितृस्थानीयः। __ 669 भृतिप्रत्ययान्मासादिकः // 7 // 3 / 140 // भृतौ वर्तमानाद्यः प्रत्ययो विहितस्तदन्तात्परो यो मासशब्दस्तदन्ताद् बहुव्रीहेरिकः समासान्तः स्यात् / पञ्च भृतिरस्य पञ्चकः, पञ्चको मासोऽस्य पञ्चकमासिकः। भृतिप्रत्ययादिति किम् / सुमासः / भृतिग्रहणं किम् / वर्षासु भवो वार्षिकः, वार्षिको मासोऽस्य वार्षिकमासकः / प्रत्ययग्रहणं किम् / भृतिर्मासोऽस्य भृतिमासकः / मासादिति किम् / पञ्चको दिवसोऽस्य पञ्चकदिवसकः / . 670 द्विपदाद्धर्मादन् / / 7 / 3 / 141 // धर्मशब्दान्ताद् द्विपदाद् बहुव्रीहेरन् स्यात् / साधूनामिव धर्मोऽस्य साधुधर्मा / विकल्पमिच्छन्त्येके / कल्पाणधर्मा / कल्याणधर्मकः। द्विपदादिति किम् / परमः स्वो धर्मोऽस्य परमस्वधर्मः / इह कस्मान्न भवति-परमः स्वधर्मोऽस्य परमस्वधर्मः / प्रत्यासत्तेद्विपदस्य बहुव्रीहेर्यदि धर्म एवोत्तरपदं तदा स्यादितीह न भवति / 671 सुहरिततृणसोमाजम्मात् // 7 // 3 / 142 // एतेभ्यः परो यो जंभशब्दस्तदन्ताद् बहुव्रीहेरन् स्यात् / जंभशब्दोऽभ्यवहार्यवचनो दंष्ट्रावचनो वा / शोभनो जंभो जंभा वा अस्य सुजंभा। हरितजंभा / तृणजभा / सोमजंभा। दंष्ट्रापक्षे तृणमिव जंभोऽस्य तृणजंभा / स्वादिभ्य इति किम् / चारुजंभः / 672 दक्षिणेर्मा व्याधयोगे // 7 // 3 / 143 // दक्षिणेर्मेति बहुव्रीहिरन्नन्तो निपात्यते व्याधेन योगे सति / ईमें बहु व्रणं वा / दक्षिणमङ्गमीर्ममस्य दक्षिणेऽङ्गे ईर्ममस्येति वा दक्षिणेर्मा मृगः / व्यध्धुकामस्य व्याधस्य दक्षिणं भागं बहूकृत्य व्यधनानुकूलं स्थितो व्याधेन वा दक्षिणभागे कृतत्रण एवमुच्यते / व्याधयोग इति किम् / दक्षिणेम शकटम् / 673 सुपूत्युत्सुरभेर्गन्धाद्गुणे // 7 / 3 / 144 // एतेभ्यः परो यो गंधशब्दो गुणे वर्तते तदन्ताद् बहुव्रीहेरित् समासान्तः स्यात् / शोभनो गंधो गुणोऽस्य सुगंधि चन्दनम् / पूतिगंधि करञ्जम् / उद्गंधि कमलम् / सुरभिगंधि केसरम् / उत्तरत्रागन्तोर्वावचनादिह स्वाभाविकाद् भवति / स्वादिभ्य इति किम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy