SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 151 662 नञ्बहोचो माणवचरणे // 73 / 135 // एताभ्यां परो य ऋचशब्दस्तदन्ताद् बहुव्रीहेरप् स्यात् यथासंख्यं माणवे चरणे च वाच्ये। 663 अन् स्वरे // 3 / 2 / 129 // नत्रः स्वरादावुत्तरपदेऽन् इत्ययमादेशः स्यात् / न विद्यन्ते ऋचोऽस्य अनृचो माणवः / बचश्वरणः। माणवचरण इति किम् / अनुकं साम / बकं सूक्तम् / 'ऋक्यूः पथ्यपोऽत् ' इत्येव सिद्धे नियमार्थ वचनम्। 664 नम्सुदुर्यः सक्तिसक्थिहलेर्वा ।।७।३।१३६॥नसुदुर् इत्येतेभ्यः परे ये सक्तिसक्थिहलिशब्दास्तदन्ताद् बहुव्रोहेरब्बा स्यात् / सञ्जनं सक्तिः / 665 नमत् // 3 / 2 / 125 // नशब्द उत्तरपदे परे अकारः स्यात् / न विद्यमाना सक्तिरस्य असक्तः, असक्तिः। सुसक्तः, सुसक्तिः / दुःसक्तः / दुःसक्तिः। असक्थः, असक्थिः। सुसक्थः, सुसक्थिः। दुःसक्थः, दुःसक्थिः। अहलः, अहलिः। सुहलः, सुहलिः। दुईलः, दुईलिः। नसुदुर्घ्य इति किम् / गौरसक्थी स्त्री / दीर्घसक्थि शकटम् / बहुहलिः पुरुषः। हलसक्तशब्दाभ्यां सिद्धे कजभावार्थ वचनम् / तेन न विद्यते हलमस्य अहलक इत्यादि न भवति / सक्तिशब्दान्नेच्छन्त्यन्ये / वचनभेदो यथासंख्यनिवृत्त्यर्थः / 666 प्रजाया अम् / / 7 / 3 / 137 // नादिभ्यः परो यः प्रजाशब्दस्तदन्ताद् बहुव्रीहेरस समासान्तः स्यात् / न विद्यमानाः प्रजा यस्य अप्रजाः / सुप्रजाः। दुष्प्रजाः। 667 मन्दाल्पाछ मेधायाः // 73 / 138 // एताभ्यां नादिभ्यश्च परो यो मेधाशब्दस्तदन्ताद् बहुव्रीहेरस् स्यात् / मन्दा मेधा यस्य स मन्दमेधाः / एवमल्पमेधाः / अमेधाः / सुमेधाः / दुर्मेधाः। 668 जातेरीयः सामान्यवति // 13 / 139 // जातिशब्दान्ताद् बहुव्रीहेरीयः समासान्तः स्यात् सामान्यवति-सामान्याश्रयेऽन्यपदार्थे वाच्ये / ब्राह्मणो जातिरस्य ब्राह्मणजातीयः, अत्र ब्राह्मणशब्देन ब्राह्मणस्था जातिरुच्यते / सामान्यवतीति किम् / बहुजातियामः / अत्र ग्रामो न सामान्यवान् किन्तु तत्स्थाः पुरुषाः। अजातीय इत्यत्र तु सामान्यवानेवान्यपदार्थः। प्रतिषेधस्तु नबर्थः / सामान्यग्रहणं किम् / दुर्जातः सूतपुत्रस्य / अत्र जातिशब्दो जन्मपर्याय इति न
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy