SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [बहुव्रीहिसमास 656 सुप्रातस्तुश्वसुदिवशारिकुक्षचतुरश्रेणिपदाजपदप्रोष्टपदभद्रपदम् / / 7 / 3 / 129 / / सुप्रातादयो बहुव्रोहयो डप्रत्ययान्ता निपात्यन्ते / शोभनं कर्म 'प्रातरस्य सुप्रातः / शोभनं कर्म श्वोऽस्य सुश्वः / शोभनं कर्म दिवाऽस्य सुदिवः शारेरिव कुक्षिरस्य शारिकुक्षः / चतस्रोऽश्रयो यस्य चतुरश्रः। एण्या इव पादावस्य एणीपदः / एवमजपदः / प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः। भद्रौ पादावस्य भद्रपदः / निपातनात् पद्भावो विषयव्यवस्था च भवति / 657 पूरणीभ्यस्तत्प्राधान्येऽप् // 7 / 3 / 130 // पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी तदन्ताद् बहुव्रीहेरप समासान्तः स्यात् , तत्प्राधान्ये-तस्याः पूरण्याः प्राधान्ये / समासेनाभिधीयमानो ह्यर्थः प्रधानं भवति / कल्याणी पञ्चमी रात्रिर्यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः / अत्र रात्रयः समासार्थः। तासु पञ्चम्यपि रात्रित्वेनानुपविष्टेति प्रधानम् / पूरणीभ्य इति किम् / द्वितीया भार्या कल्याणी यासां भार्याणां ता द्वितीयाकल्याणीकाः। स्त्रीत्वनिर्देशः किम् / कल्याणपश्चमका दिवसाः। बहुवचनं व्याप्त्यर्थम् / पकारो 'नाप्पियादौ' इति पर्युदासार्थः। 658 नसुव्युपत्रेश्चतुरः // 73 / 131 // एतेभ्यः परो यश्चतुःशब्दस्तदन्ताद् बहुव्रीहेरप् स्यात् / अविद्यमानानि अदृश्यानि वा चत्वारि यस्य सोऽचतुरः / सुदृश्यानि शोभनानि वा चत्वारि यस्य सुचतुरः। विसदृशानि विगतानि वा चत्वारि यस्य विचतुरः / चत्वारः समीपे येषां संख्येयानां ते उपचतुराः / त्रयो वा चत्वारो वा त्रिचतुराः / समासान्तविधेरनित्यत्वादिह न भवति / त्रयश्चत्वारो यस्य स त्रिचत्वा उन्मुग्धः। 659 अन्तर्बहियां च लोग्नः / / 7 / 3 / 132 // एताभ्यां परो यो लोमन्शब्दस्तदन्ताद् बहुव्रीहेरप् स्यात् / अन्तामान्यस्य अन्तर्लोमः / बहिर्लोमः प्रावारः। 660 भान्नेतुः // 7 / 3 / 133 // भान्नक्षत्रवाचिनः परो यो नेतृशब्दस्तदन्ताद् बहुव्रीहेरप् स्यात् / मृगो नेता यासां ता मृगनेत्रा रात्रयः / भादिति किम् / देवदत्तनेतृकः / नेत्रशब्देनैव सिद्धे नेतृशब्दात् कच् मा भूत् इति वचनम् / 661 नाभेर्नानि // 73 // 134 // नाभ्यन्ताद् बहुव्रीहेरप स्यानाम्नि-अबन्तेन चेत्संज्ञा गम्यते / पद्मनाभः / नानीति किम् / विकसितवारिजनाभिः / अधोनाभं प्रहतवानिति अव्ययीभावेऽपि तिष्ठद्ग्वादिषु तथापाठात् सिद्धम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy