________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 149 650 स्वाङ्गान्डीर्जातिश्चामानिनि // 3 / 2 / 56 // स्वाङ्गायो विहितो ङीस्तदन्तो जातिवाची च यः शब्दः परतः स्त्री स धुवन्न स्थात् अमानिनि-मानिनशब्दश्चेत्परो न भवेत् / दीर्घकेशीभार्थः / कठीभार्थः। 'आकृतिग्रहणा जातिरत्रिलिङ्गा च यान्विता / आजन्मनाशमर्थानां सामान्यमपरे विदुः' // अत्र प्रथमजातिलक्षणानुसारेण कुमारीभार्थ इति भवति, द्वितीयजातिलक्षणानुसारेण कुमारभार्य इति भवति / नहि कुमारत्वादि उत्पत्तेः प्रभृत्याविनाशमनुवर्तते / स्वाङ्गादिति किम् / पटुभार्यः। ङीरिति किम् / सकेशभार्यः / अमानिनीति किम् / दीर्घकेशमानिनी / कठमानिनी / 651 बहुव्रीहेः काष्ठे टः // 7 / 3 / 125 // अङ्गल्यन्ताद् बहुव्रीहेः काष्ठे वर्तमानात् टः समासान्तः स्यात् / 652 अवर्णवर्णस्य // 7 // 4 / 68 // अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिते परे लुक् स्यात् / द्वे अङ्गुली यस्य व्यङ्गुलम् / अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते / बहुव्रीहेरिति किम् / उपाङ्गुलि। काष्ठ इति किम् / पञ्चाङ्गलिहस्तः / अङ्गुलेरिति निर्देशादङ्गुलीशब्दान्तान भवति / द्वावगुलीसदृशावयवौ यस्य तत् द्यङ्गलीकं दारु / 'न कचि' इति ह्रस्वाभावः। टकारो ङन्यर्थः। दीर्घाङ्गुली यष्टिः। 653 सक्थ्यक्ष्णः स्वाङ्गे // 73 / 126 // स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेष्टः स्यात् / दीर्घ सक्थि यस्य दीर्घसक्थः। विशालाक्षः / सक्थ्यक्ष्ण इति किम् / सुबाहुः / स्वाङ्ग इति किम् / दीर्घसक्थि शकटम् / बहुबीहेरित्येव परमसक्थि / 654 द्विवेद्नो वा // 73 / 127 // द्वित्रि इत्येताभ्यां परो यो मूर्धन्शब्दस्तदन्ताद् बहुव्रीहेष्टो वा स्यात् / 655 नोऽपदस्य तद्धिते // 7 // 4 / 61 // नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेर्लक् स्यात् / द्विमूर्धः, द्विमूर्धा / त्रिमूर्धः, त्रिमूर्धा / द्विमूर्धी स्त्री। बहुव्रीहेरित्येव / द्वयोर्मूर्धा द्विमूर्धा /