SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 148 सिद्धहैमबृहत्पक्रिया. [बहुव्रीहिसमास अत्र पुंवद्भावे शब्दतः प्रत्यासन्नो द्रोणशब्दः प्राप्नुयात् / स्त्रीति किम् / ग्रामणि कुलं दृष्टिरस्य ग्रामणिष्टिः / ख्येकार्थ इति किम् / कल्याण्या वस्त्रं कल्याणीवस्त्रम् / स्त्रीग्रहणं किम् / कल्याणी प्रधानमेषां कल्याणीप्रधानाः / एकार्थ इति किम् / कल्याण्या माता कल्याणीमाता / अनूङिति किम् / ब्रह्मबंधूभार्यः। अनूङिति सज्ज्यप्रतिषेधात् इडविडोऽपत्यं स्त्री अञ् तस्य लुप् / इडविड् / सा चासौ भार्या च ऐडविडभार्येत्यादिषु उत्तरेण पुंवद्भावः / पर्युदासे हि ऊङ्सदृशप्रत्ययान्तस्यैव पुंवद्भावः स्यात् / उक्तं हि द्वौ नौ प्रकृतौ लोके पर्युदासप्रसज्ज्यको / पर्युदासः सदृग्ग्राही प्रसज्ज्यस्तु निषेधकृत्' / मियादौ च परे परतः स्त्री पुंवन्न स्यात् / कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः। पूरण्यबन्तस्य ग्रहणात् इह पुंवद्भावो भवत्येव / बव्य ऋचो यस्य स बचश्चरणः / प्रियादौ-कल्याणी प्रिया यस्य स कल्याणीमियः / एवं कल्याणीभक्तिः / कथं दृढभक्तिः / दृढं भक्तिरस्येत्येवं अस्त्रीपूर्वपदस्य विवक्षितत्वात् / अप्पियादाविति किम् / कल्यागी पञ्चमी अस्मिन् कल्याणपञ्चमीकः पक्षः। 648 तद्धिताककोपान्यपूरण्याख्याः // 32 // 54 // तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्त्यो यासां तास्तद्धिताककोपान्त्याः पूरणीप्रत्ययान्ता आख्याः संज्ञास्तद्रूपाश्च परतः स्त्रियः पुंवन्न स्युः। तद्धित-मद्रिकाभावः / अककारिकाभार्यः / पूरणी-द्वितीयाभार्यः / कस्य तद्धिताकविशेषणं किम् / पाकभार्यः। 649 तद्धितः स्वरवृद्धिहेतुररक्तविकारे // 3 / 2 / 55 // स्वरस्थानाया वृद्धेर्यो हेतुस्तद्धितो रक्ताद्विकाराच्चान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न स्यात् / 1 वैदिशीभार्यः। तद्धित इति किम् / कुंभकारी भार्या यस्य स कुंभकारभार्यः। वृद्धिहेतुरिति किम् / अर्धप्रस्थे भवा अर्धप्रस्था, अर्धमस्था भार्या यस्य सः अर्धप्रस्थभार्यः / अन्ये तु वृद्धिमात्रहेतोर्णितस्तद्धितस्य पुंवत्पतिषेधमिच्छन्ति / तन्मते वैयाकरणीभार्यः / अरक्तविकार इति किम् / कषायेण रक्ता काषायी, सा बृहतिका यस्य स कापायबृहतिकः / लोहस्य विकारो लौही, सा ईषास्य लौहेषः / 1 विदिशायां भवा जाता वा।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy