________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 147 640 जातिकालसुखादेर्नवा // 3 / 1 / 152 // जातिवाचिभ्यः कालवा जग्धी, जग्धशाङ्गरा / कटकृतः, कृतकटः / व्यक्तिविवक्षायां तु 'क्ताः ' इत्यनेन कृतकट इत्याद्येव भवति / अन्ये तु आकृतिव्यङयजातिवाचिन एव क्तान्तपूर्वनिपा मुखादयो दश क्यविधौ निर्दिष्टाः / सुखयाता, यातसुखा / क्तान्तं पूर्व वा स्यात् / आहितोऽग्निर्थेन स आहितानिः / अग्न्याहितः / बहुवचनमाकृतिगणार्थम् / 642 प्रहरणात् // 3 / 1 / 154 // प्रहरणवाचिनः शब्दात् क्तान्तं बहुव्रीहौ पूर्व वा स्थात् / उद्यतोऽसिरनेन उद्यतासिः / अस्युद्यतः / 643 न सप्तमीन्दादिभ्यश्च // 3 // 1 // 155 // इन्द्वादेः प्रहरणवाचिनश्च शब्दात् पूर्व सप्तम्यन्तं न स्याद् बहुव्रीहौ / इन्दुलिौ यस्य स इन्दुमौलिः / असिः पाणावस्य असिपाणिः। बहुलाधिकारात् पाणिवज्र इत्यत्र पूर्वनिपातोऽपि। सर्वत्र उष्ट्रमुखादित्वात्समासः / बहुवचनं प्रयोगानुसरणार्थम् / एवमुत्तरत्रापि / 644 गड्वादिभ्यः // 3 / 1 / 156 / / वेत्यनुवर्तते। गड्वादिभ्यः शब्देभ्यो बहुव्रीहौ सप्तम्यन्तं पूर्व वा स्यात् / गडुकंठः, कंठेगडुः / एवं शिरसिगडुः, गडशिराः / व्यवस्थितविभाषया वहेगडुरित्येव / भवति / 645 प्रियः // 3 / 1 / 157 // प्रियशब्दो बहुव्रीहौ पूर्व वा स्यात् / प्रियगडुः, गडुप्रियः। 646 परतः स्त्री पुंवत् स्त्रयेकार्थेऽनूङ् // 3 / 2 / 49 // परतो विशेष्यवशायः स्त्रीलिङ्गः स स्त्रियां वर्तमाने एकार्थे तुल्याधिकरणे उत्तरपदे परे पुंवत स्यात् 'अन्'-न चेदुङन्तो भवति / दर्शनीया भार्या यस्य स दर्शनीयभार्यः / एवं पटुभार्यः / पवी च मृद्वी च पट्वीमद्वयौ, ते भार्ये अस्य पट्टीमृदुभार्यः। अत्र द्वंद्वपदानां परस्परार्थसंक्रमात् यथेस्य मृदुशब्दस्य यथैन भायोंशब्देन सामानाधिकरण्यमिति पुंवद्भावः / पूर्वस्य तु व्यवधानान भवति / परत इति किम् / 'द्रुणीभार्यः। अत्र पुंवद्भावे अर्थतः प्रत्यासन्नः कूर्मशब्दः प्राप्नुयात् / द्रोणीभार्यः /