________________ 146 सिद्धहैमबृहत्प्रक्रिया [बहुव्रीहिसमास बहुव्रीहिः / दक्षिणस्याश्च पूर्वस्याश्च दिशोर्थदन्तरालं सा इति विग्रहेऽनेन समासे कृते। 636 सर्वादयोऽस्यादौ // 3 / 2 / 61 // सर्वादिगणः परतः स्त्री पुंवत् स्यात् 'अस्यादौ-स्यादिश्चेत्ततः परो न भवेत् / इत्यनेन पुंवद्भावे-दक्षिणपूर्वा दिक् / कथं पश्चिमदक्षिणा, पश्चिमोत्तरा ? / कर्मधारयोऽयम् / बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् / रूढिग्रहणं यौगिकनिवृत्त्यर्थम् , तेन ऐन्द्रयाः कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव / इत्यादयो बहुव्रीहिसमासा ज्ञेयाः / यत्र प्रधानस्यैकदेशो विशेषणतया ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिः। यथा लंबो कर्णौ यस्य सः लंबकर्णः / चित्राः गावः यस्येत्यत्र / ___637 विशेषणं सर्वादिसंख्यं च बहुव्रीहौ // 3 / 1 / 150 // विशेषणवाचि, सर्वादि, संख्यावाचि च नाम बहुव्रीहौ पूर्व स्यात् / अनेन विशेषणस्य पूर्वनिपाते। 638 गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ // 49 // गौणस्याकिपो गोशब्दस्य ङयाद्यन्तस्य च नाम्नोऽन्ते वर्तमानस्य इस्वः स्थान चेदसावंशिसमासान्त ईयस्वन्त बहुव्रीह्यन्तो वा स्यात् / अनेन च इस्वे-चित्रगुः। सर्वादौसर्व शुक्लमस्य सर्वशुक्लः / संख्यायाम्-द्वौ कृष्णावस्य द्विकृष्णः / षडुलतः। सप्तरक्तः / उन्नतरक्तशब्दौ न तान्तावपि तु गुणशब्दौ / तेन स्पर्धे क्तलक्षणः पूर्वनिपातो न भवति / शब्दस्पर्धे परत्वात् सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः। त्र्यन्यः / उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः / धन्यः / बहुव्रीहाविति किम् / उपसर्वम् / 'प्रथमोक्तं प्राग्वत् ' इत्यनियमे प्राप्ते नियमार्थ वचनम् / सर्वादिसंख्ययोविशेषणत्वेऽपि पृथग्वचनं शब्दपरस्पर्धार्थम् / 639 क्ताः // 3 / 1 / 151 // क्तप्रत्ययान्तं सर्व बहुव्रीही पूर्व स्यात् / कृतः कटोऽनेन कृतकटः / तान्तस्य विशेषणत्वात् पूर्वेण सिद्धे विशेष्यार्थ तु वचनम् / कटे कृतमनेन कृतकटः / स्पर्धे परत्वार्थ च / कृतभव्यकटः / केचित्तु सर्वादिभ्यः तान्तस्य पूर्वनिपातं नेच्छन्ति / बहुवचनं व्याप्त्यर्थम् , तेन कृतप्रिय इत्यत्र परेणापि स्पर्धे क्तान्तस्यैव पूर्वनिपातः /