SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 145 कंठे स्थितः कालो यस्य सः कंठेकाल इत्यादिषु सप्तमीपूर्वपदं समानाधिकरणं समस्यते उत्तरपदस्य च लोपः / केशसंघातथूडा यस्य सः केशचूड इत्यादिषु संघातविकारापेक्षया षष्ठया समस्तं समस्यते उत्तरपदलोपश्च / तथा प्रपतितानि पर्णानि अस्य प्रपर्ण इत्यादिषु प्रादिपूर्व धातुजं पदं समस्यते तस्य च विकल्पेन लोपः / तथा अविद्यमानः पुत्रोऽस्य अपुत्रः, अविद्यमानपुत्र इत्यादिषु नपूर्वमस्त्यर्थ पदं समस्यते तस्य च वा लोपः / बहुवचनमाकृतिगणार्थम् / 630 सहस्तेन // 3 // 1 // 24 // सह इत्येतनाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेन नाम्नाऽन्यपदस्यार्थे समस्यते स च समासो बहुव्रीहिः। प्रथमान्तान्यपदार्थार्थ आरंभः / 631 सहस्य मोऽन्यार्थे / / 3 / 2 / 143 // अन्याथै अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे परे सहशब्दस्य स इत्ययमादेशो वा स्यात् / सह पुत्रेण सपुत्रः, सहपुत्र आगतः। आगमनमुभयोस्तुल्यम् / सह धनेन वर्तते सधनः, सहधनः। विद्यमानताऽत्र सहार्थो न तुल्ययोगः / बहुलाधिकारात् विद्यमानार्थे कचिन्न समासः / सहैव दशभिः पुत्रैर्भार वहति गर्दभी। 632 नानि // 3 / 2 / 144 // योगारंभावति नानुवर्तते / अन्यार्थे समासे उत्तरपदे सहशब्दस्य सादेशः स्यात नाम्नि संज्ञायां विषये / सह अश्वत्थेन वर्तते साश्वत्थं नाम वनम् / सह रसेन सरसा दूर्वा / अन्यार्थ इत्येव / सह चरतीति सहचरः कुरण्टकः। 633 अदृश्याधिके // 3 / 2 / 145 // अदृश्यं परोक्षम् / अधिकमधिरूढम् / तद्वाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य सादेशः स्यात् / साग्निः कपोतः। सद्रोणा खारी / ' सहस्य सोऽन्यार्थे ' इत्यनेनैव सिद्धे नित्यार्थ वचनम् / 634 नाशिष्यगोवत्सहले // 3 / 2 / 148 // आशिषि गम्यमानायां गवादि. वर्जित उत्तरपदे परे सहशब्दस्य सादेशो न स्यात् / स्वस्ति राज्ञे सहराष्ट्राय / आशिषीति किम् / सपुत्रः, सहपुत्रः / अगोवत्सहल इति किम् / स्वस्ति भवते सगवे, सहगवे, सवत्साय, सहवत्साय, सहलाय, सहहलाय / ____636 दिशो रूढ्यान्तराले // 6 // 1 // 20 // रूढया दिशः संबंधि नाम रूढयैव दिशः संबंधिना नाम्नाऽन्तरालेऽन्यपदार्थेऽभिधेये समस्यते स च समासो
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy