SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 144 सिद्धहैमबृहत्प्रक्रिया. [बहुव्रीहिसमास संख्यावाचिना नाम्नैकार्थे समस्यते द्वितीयाद्यन्तस्यान्यस्य पदस्याथै संख्येयरूपेऽभिधेये स च समासो बहुव्रीहिसंज्ञः स्यात् / आसन्ना दश येषां येभ्यो वेति विग्रहेऽनेन समासे, स्यादिलुपि ' उक्तार्थानामप्रयोगः' इति यच्छब्दाप्रयोगे / 635 प्रथमोक्तं प्राक् // 3 / 1 / 148 // अत्र समासप्रकरणे प्रथमान्तेन पदेन यनिर्दिष्टं तत्पूर्व निपतेत् / इत्यासन्नशब्दस्य पूर्वनिपाते, समासान्ते च डे-आसन्नदशाः / नव एकादश वेर्थः / एवमदूरदशाः / अधिकदशाः / अध्यर्धा विंशतिर्येषां ते इति विग्रहेऽनेन समासे समासान्ते डे च कृते / 626 विंशतेस्तेर्डिति // 7 // 467 // विंशतिशब्दस्यापदसंज्ञकस्य यस्तिशब्दस्तस्य डिति तद्धिते परे लुक् स्यात् / अध्यर्धविंशाः / त्रिंशदित्यर्थः। अर्धपश्चमा विंशतयो येषां ते अर्धपश्चमविंशाः नवतिरित्यर्थः। 627 अव्ययम् / / 3 / 1 / 21 / / अव्ययं नाम संख्यावाचिना नाम्नैकार्थे समस्यते द्वितीयाद्यन्यार्थे संख्येयेऽभिधेये, स च समासो बहुव्रीहिः / योगविभाग उत्तरार्थः / उप-समीपे दश येषां ते उपदशाः, नवैकादश वा / एवमुपविंशाः, उपत्रिंशाः, उपचत्वारिंशाः। 328 एकार्थ चानेकं च // 3 / 1 / 22 / / एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थम्-समानाधिकरणम् / एकमनेकं चैकाथै नामाव्ययं च नाम्ना द्वितीयाधन्तस्यान्यस्य पदस्यार्थे समस्यते स च समासो बहुव्रीहिः / आरूढो वानरो यं स आरूढवानरो वृक्षः। आरूढा बहवो वानरा यं स आरूढबहुवानरो वृक्षः / उच्चैमुखमस्य उच्चैमुखः / व्यधिकरणत्वादव्ययस्य न प्रामोतीत्यव्ययानुकर्षणार्थश्चकारः। सामानाधिकरण्ये तु एकार्थमित्यनेनापि सिद्धयति / अस्ति क्षीरमस्या अस्तिक्षीरा गौः / क्रियावचने त्वस्त्यादीनां नाम नाम्नेत्यादिनैव बहुलवचनात् सिद्धम् / एकार्थग्रहणं किम् / पञ्चभिर्भुक्तमस्य / द्वितीयाद्यन्यार्थ इत्येव / वृष्टे मेघे गतः / इह कस्मान भवति-वृष्टे मेवे गतं पश्य ? / बहिरङ्गात्र द्वितीयान्ततेति / शब्दे कार्यासंभवादर्थे लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसंख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् / बहुलाधिकारात् राजन्वती भूरनेनेत्यादौ न भवति / 629 उष्ट्रमुखादयः // 3 // 1 // 23 // उष्ट्रमुखादयो बहुलं बहुव्रीहिसमासा निपात्यन्ते। उष्टमुखमिव मुखमस्य उष्टमुखः। वृषस्कंधः। इत्यादिपमानमुपमेयेन सामान्यवाचिना च सह समस्यते / उपमेयसरूपस्य चोपमानस्य यथासंभवं लोपः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy