SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 142 सिद्धहैमबृहत्प्रक्रिया. [बहुव्रीहिसमास विभक्तिवाच्यैव तु संख्या वृत्तौ निवर्तते नामादिगम्या तु न निवर्तते / यथा द्विपुत्रः पञ्चपुत्र इत्यादौ नामार्थ एव संख्याविशेषः। तावकीनो मामकीन इत्यादेशाभिव्यङन्य प्रेकत्वम् / शौपिकः मासजात इति परिमाणस्वाभाव्यादेकत्वसंख्यावगमः। कारकमध्य व्यंजनमध्यमित्यादौ मध्यान्यथानुपपत्त्या द्वित्वागवमः। यत्रापि वृत्तौ विभक्तेलब नास्ति दास्याः पुत्र इत्यादौ तत्रापि संख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः। अत एव वृत्तौ संख्याभेदाभावात् स्वभावतो निवृत्ता विभक्तिलपा अन्वाख्यायते / अलुप्समासे तु शब्दान्तरं विभक्त्यन्तप्रतिरूपावयवमनेनोपायेन प्रतिपाद्यते / तथा वाक्ये व्यक्ताभिधानं भवतिब्राह्मणस्य कंबलस्तिष्ठति / समासे पुनरव्यक्तं ब्राह्मणकंबलस्तिष्ठतीति / संदिह्यतेऽत्र षष्ठीसमासो वा संबोधनं वेति / किंचित् पुनरव्यक्तवाक्ये / यथार्ध पशोदेवदत्तस्येति / पशुगुणस्य वा देवदत्तस्य यदधैं यो वा संज्ञीभूतो पशुस्तस्य यदर्धमिति / तच्च समासे व्यक्तम् अर्धपशु देवदत्तस्येति / तथा वाक्ये उपसजने विशेषणं भवति। ऋद्धस्य राज्ञः पुरुषः। समासे न भवति राजपुरुषः। यथाहुः-सविशेषणानां वृत्तिन वृत्तस्य वा विशेषणं न प्रयुज्यते इति / विशेषणयोगे हि सापेक्षत्वेनागमकत्वात् सामर्थ्य न भवति / यत्र च कचिद् विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः, यथा देवदत्तस्य गुरुकुलम् / यदाह 'संबंधिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते / स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते // ' तथा वाक्ये चयोगो भवति स्वचयोगः स्वामिच्योगश्च / राज्ञो गौश्वाश्वश्च पुरुपश्च। समासे न भवति / राज्ञो गोश्वपुरुषाः। यदि समर्थः पदविधिः कथमसामर्थ्य सूर्य न पश्यन्त्यमूर्यपश्या राजदारा इत्याद्या वृत्तयो भवन्ति ? / १कि हि वचनान्न भवति। 618 नाम नाम्नैकार्थं समासो बहुलम् // 3 / 1 / 18 // नाम नाम्ना सहकार्य-एकार्थीभावे सति समाससंज्ञं स्यात् बहुलम् / ऐकार्थ्य च सामर्थ्यविशेषः। स च पृथगर्थानां पदानां कचित्परस्परव्यपेक्षालक्षणं सामर्थ्यमनुभूय भवति / लक्षणमिदमधिकारश्च / तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा भवति / ऐकपद्यं च समासफलम् / 1 गमकत्वात् 'न' इत्यनेनासामर्थ्येऽपि बाहुलकाद् भवतीत्यर्थः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy