________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 141 पदानां वा स सर्वः पदविधिरेव / सर्वः पदविधिः समर्थो वेदितव्यः। समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः / तच्च सामर्थ्य व्यपेक्षा एका भावश्च / अत्र व्यपेक्षायां संबद्धार्थः संप्रेक्षितार्थो वा पदविधिः साधुर्भवति। एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः संगतार्थः संसृष्टार्थो वा पदविधिः स साधुर्भवति / अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् यर्थानि अर्थान्तराभिधायीनि वा भवन्ति / पदविधिश्च समासनामधातुकृतद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति / तत्र समासः-धर्म श्रितः धर्मश्रितः इत्यादिः। अत्र पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्पराकांक्षालक्षणा व्यपेक्षा / वृत्त्यवस्थायां तु पृथगर्थानां सतामेका भाव इति। तदेतत्सामर्थ्य अविशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्त्योः स्वभावेन विभक्तमवतिष्ठते / यत्र स्वसामर्थ्य तत्र समासो न भवति / यथा पश्य धर्मम् श्रितो मैत्रो गुरुकुलमित्यादौ / नामधातुः-पुत्रमिच्छति पुत्रीयति / समर्थ इति किम् / पश्यति पुत्रमिच्छति सुखम् / कृत्-कुंभं करोति कुंभकारः। समर्थ इति किम् / पश्य कुंभम् करोति कटम् / तद्धितःउपगोरपत्यमौपगवः। समर्थ इति किम् / गृहमुपगोरपत्यं तव / उपपदविभक्तिःनमो देवेभ्यः। समर्थ इति किम् / इदं नमो देवाः शृणुत / युष्मदस्मदादेशः-धर्म-- स्ते मे स्वम् / समर्थ इति किम् / ओदनं पच तव मम भविष्यति। प्लुतः-अङ्ग कूज 3 इदानीं ज्ञास्यसि जाल्म। समर्थ इति किम् / अङ्ग कूजत्ययमिदानी ज्ञास्यति जाल्मः। पदग्रहणाद वर्णविधिरसामर्थेऽपि भवति / तिष्ठतु दध्यशान त्वं शाकेन / एवं समासनामधातुकृत्तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः / शेषेषु पुनर्व्यपे व सामर्थ्य भवति / ननु च राज्ञः पुरुषमानयेत्युक्ते योऽर्थ आनीयते राजपुरुषमानयेत्यप्युक्ते स एव तत् कोऽत्र व्यपेक्षैकार्थीभावयोर्विशेषः ? / उच्यते। संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगश्चेति / तत्र राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां पुरुषः इति वाक्ये संख्याविशेषो भवति, समासे न भवति / राजपुरुषः। वाक्ये ह्युपसर्जनानि विभक्तार्थाभिधायित्वात् संख्याविशेषयुक्तं स्वार्थ प्रतिपादयन्ति / समासेऽन्तर्भतस्वार्थ प्रधानार्थमभिदधतीत्यभेदैकत्वसंख्यां गमयन्ति। संख्याविशेषाणामविभागेनावस्थानमभेदैकत्वसंख्या / 'यथौषधरसाः सर्वे मधुन्याहितशक्तयः / अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः //