________________ 140 सिद्धहैमबृहत्प्रक्रिया. [ बहुव्रीहिसमास योपाधियोगादेकत्वं नास्तीति बहुवद्भावो न भवति / जातिमात्रविवक्षायां तु भवत्येव / मगधेषु स्तनाः पीनाः, स्तनः पीनः / कलिङ्गेष्वक्षीणि शुभानि, अक्षि शुभमिति / असंख्य इति किम् / एको व्रीहिः संपन्नः सुभिक्षं करोति / अत्र विशेषणभूतसंख्याप्रयोगोऽस्तीति एके व्रीहयः संपन्नाः सुभिक्षं कुर्वन्ति, इति न भवति / 614 अविशेषणे दो चास्मदः // 2 / 2 / 122 // अस्मदो द्वावेकश्चार्थो वा बहुवत्स्यात् अविशेषणे-न चेत्तस्य विशेषणं प्रयुज्यते / आवां ब्रूवः / वयं ब्रूमः। अहं ब्रवीमि / वयं ब्रूमः / अविशेषण इति किम् / आवां गार्यो ब्रूवः / कथं 'नाटये च दक्षा वयम्' इत्यादि ? / दक्षवादीनां विधेयत्वेनाविशेषणवाद् भविष्यति / यदनूद्यमानमवच्छेदकं तद्विशेषणम् इति एकानेकस्वभावस्यात्मनोऽनेकस्वभावविवक्षायां बहुवचनं सिद्धमेव सविशेषणप्रतिषेधार्थ तु वचनम् / 615 फल्गुनीप्रोष्ठपदस्य भे // 2 / 2 / 123 // फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे-नक्षत्रे वर्तमानस्य द्वावौँ बहुवद्वा स्याताम् / कदा पूर्व फल्गुन्यौ, पूर्वाः फल्गुन्यः / कदा पूर्वे प्रोष्ठपदे, पूर्वाः प्रोष्ठपदाः। भ इति किम् / फल्गुनीषु जाते फल्गुन्यौ माणविके / द्वावित्येव / तेनैकस्मिन् ज्योतिषि न भवति / दृश्यते फल्गुनी / एकवचनान्तः प्रयोग एव नास्तीत्यन्ये / फल्गुनीपोष्ठपदस्येति शब्दपरो निर्देशः किम् / तत्पर्यायस्य मा भूत् / अद्य पूर्वे भद्रपदे। 616 गुरावेकश्च // 2 / 2 / 124 // गुरौ-गौरवाहेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्वार्थो बहुवद्वा स्यात् / त्वं गुरुः / यूयं गुरवः / युवां गुरू / यूयं गुरवः। एष मे पिता / एते मे पितरः। आपः, दाराः गृहाः, वर्षाः, पञ्चालाः जनपदः गौदौ, खलतिकं वनानि, हरीतक्यः फलानि, पश्चालमथुरे, चञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थानुपातिनि च शब्दात्मनि रूढितस्तत्तल्लिङ्गसंख्योपादानव्यवस्थाऽनुसर्तव्या। इति श्रीसिद्धहैमबृहत्पक्रियायां कारक प्रकरणं समाप्तम् // // अथ समासप्रकरणम् // तत्रादौ बहुव्रीहिः। 617 समर्थः पदविधिः // 4 / 122 // समर्थपदाश्रितत्वात् समर्थः / पदसंबंधी विधिः पदविधिः। तेन यः पदाद्विधिः यश्च पदे यश्च पदस्य पदयोः