________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 139 र्थीपञ्चमीषष्ठीसप्तम्यः स्युः। धनेन धनाय धनात् धनस्य धने हेतुना हेतवे हेतोः२ हेतौ वसति / एवं धनेन निमित्तेन, धनेन कारणेनेत्यादि / तत्सामानाधिकरण्याच हेत्वर्थेभ्योऽपि ता एव भवन्ति / प्रत्यासत्तेस्तैरेव समानाधिकरणादिवि किम् / अन्नस्य हेतुः / अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति / हेतुशब्दप्रयोगे तु षष्ठीमेवेच्छन्ति / असर्वाद्यर्थमिदम् / 611 सर्वादेः सर्वाः // 2 / 2 / 119 // हेत्वथैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेर्गौणानाम्नः सर्वा विभक्तयः स्युः। को हेतुः, कं हेतुं, केन हेतुना, कस्मै हेतवे, कस्मात् हेतोः, कस्य हेतोः, कस्मिन् हेतौ वसति चैत्रः / एवं यो हेतुः, यं हेतुमित्यादि। 612 असत्वारादर्थाहाङसिङ्यम् // 2 / 2 / 120 // सत्वं द्रव्यं ततोऽन्यदसत्त्वम् / आराद् दूरान्तिकयोः / तंत्रेणोभयोग्रहणम् / असत्ववाचिनो दूरार्थादन्तिकार्थाच्च टाङसि ङि अम् इत्येते प्रत्ययाः स्युः। गौणादिति निवृत्तम् / दूरेण, दुरात्, दरे दूरं ग्रामस्य ग्रामाद्वा वसति / अन्तिकेन, अन्तिकात, अन्तिके, अन्तिकं ग्रामस्य ग्रामाहा वसति / केचिदारादर्थयुक्तात् पञ्चमी नेच्छन्ति / तेन दूराद् ग्रामस्य, अन्तिकाद् ग्रामस्येत्येव भवति / न तत्सर्वसंमतम् / पञ्चम्या अपि दर्शनात् / 'दूरादावसथान्मूत्रं दूरात् पादावसेचनम् / दूराच भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः॥ असत्वेति किम् / दुरः पन्थाः / कथं चिरं चिरेण चिराय चिरात् चिरस्येति। विभक्तिप्रतिरूपका निपाता एते / यथा परस्परं परस्परेण परस्परस्येत्यादयः / ___613 जात्याख्यायां नवैकोऽसंख्यो बहुवत् // 2 / 2 / 121 // जातेरेकत्वादेकवचन एव प्राप्ते पक्षे बहुवचनार्थ बहुवद्भाव उच्यते / जातेराख्याभिधानं जात्याख्या, तस्यामेकोऽर्थो जातिलक्षणोऽसंख्यः-संख्यावाचिविशेषणरहितो बहुवद्वा स्यात् / संपन्नो यवः / संपन्ना यवाः / जात्यर्थस्य बहुवद्भावात् तद्विशेषणानामपि बहुवद्भावः / तथा चोभयवाचिभ्यो बहुवचनम् / जातिग्रहणं किम् / चैत्रः / आख्याग्रहणं किम् / काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो नत्वनेन जातिराख्यायते, किंतर्हि प्रतिकृतिः / एक इति किम् / संपन्नौ व्रीहियवौ / 'मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे' इत्यादावपि सव्येतरत्वलक्षणावान्तरजातिद्ध