________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 133 580 नोभयौहेतोः // 2 / 2 / 89 // उभयोः कर्तृकर्मणोः पष्ठीहेतोः कृत्यस्य संबंधिनोरुभयोरेव षष्ठी न स्यात् / नेतव्या ग्राममजा मैत्रेण / उभयोर्हतोरिति किम् / एकैकहेतोर्मा भूत् / उपस्थानीयः पुत्रः पितुः।। 581 तृन्नुदन्ताव्ययकस्वानातृश्शतृङिणकच्खलर्थस्य // 2 / 2 / 10 / / तृन उदन्तस्य कसोरानस्य अतृशः शतुर्डेः णकचः खलर्थस्य च कृतः संबंधिनोः कर्मकोंः षष्ठी न स्यात् / वदिता जनापवादान् / कन्यामलंकरिष्णुः / कटं कृत्वा। ओदनं पेचिवान् / आनेति उत्सृष्टानुबंधनिर्देशात् कानशानानशां ग्रहणम् / कटं चक्राणः, वचनमनूचानः / शान-मलयं पवमानः। आनश-ओदनं पचमानः। अतृशअधीयस्तत्वार्थम् / शत-कटं कुर्वन् / परीषहान् सासहिः। एधानाहारको व्रजति। चिनिर्देशात् णकस्य न भवति / वर्षशतस्य पूरकः। खलर्थः-ईषत्करः कटो भवता, मुज्ञानं तत्त्वं भवता / 582 क्तयोरसदाधारे // 2 / 2 / 91 // सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यो क्तौ-तक्तवतू तत्संबंधिनोः कर्मकोंः षष्ठी न स्यात् / कटःकृतो मैत्रेण। कटं कृतवान् / असदाधार इति किम् / राज्ञां ज्ञातः, बुद्धः, मतः, इष्टः, पूजितो वा। कान्तो हरिश्चन्द्र इच प्रजानाम् / ज्ञानेच्छेत्यादिना सत्यत्रक्तः / कथं शीलितो मैत्रेण, रक्षितश्चैत्रेण ? / भूतेऽयंक्तः / वर्तमानताप्रतीतिस्तु प्रकरणादिनेति। अन्ये तु ज्ञानेच्छा र्थताच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति / तन्मतेऽपशब्दावेतौ। आधारे-इदमोदनस्य भुक्तम् / इदमेषामासितम् / 'अद्यर्थाचाधारे' इति क्तः / 583 वा क्लीबे // 2 / 2 / 92 / / क्लीबे यो विहितःक्तस्तस्य कर्तरि षष्ठी वा न स्यात् / छात्रस्य छात्रेण वा हसितम् / क्लीव इति किम् / चैत्रेण कृतम् / क्तक्तवतू इति भावे क्तः / पूर्वेण प्रतिषेधे प्राप्ते विकल्पोऽयम् / 584 अकमेरुकस्य // 2 / 2 / 93 // कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् / भोगानभिलाषुकः / अकमेरिति किम् / दास्याः कामुकः। 585 एष्यदृणेनः // 2 / 2 / 94 // एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् / इन इति इणिनोर्ग्रहणम् ।ग्रामं गमी / औणादिक इन् / ग्राममागामी। औणादिको णिन् / शतं दायी। अत्राधमये णिन् / एष्यदृणेति किम् / अवश्यंकारी कटस्य / साधुदायी वित्तस्य /