________________ सिद्धहैमबृहत्पक्रिया. [ कारक 586 क्रियाश्रयस्याधारोधिकरणम् // 2 // 30 // क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तत् कारकमधिकरणसंज्ञं स्यात् / 587 सप्तम्यधिकरणे // 2 / 2 / 95 // गौणानाम्न अधिकरणे कारके सप्तमी स्यात् / अधिकरणं च पोढा / वैषयिकम्, औपश्लेषिकम्, अभिव्यापकम् , सामीप्यकम्, नैमित्तिकम् औपचारिकं च / तत्र अनन्यत्र भावो विषयः तस्मै प्रभवति वैषयिकम् / दिवि देवाः। एकदेशमात्रसंयोग उपश्लेषस्तत्र भवमौपश्लेषिकम् / कटे आस्ते / यस्याधेयेन समस्तावयवसंयोगस्तदभिव्यापकम् , तद्धि आधेयेनाभिव्याप्यते, आधेयं वाभिव्यामोतीति। तिलेषु तैलम् / यदाधेयसंनिधिमात्रेण क्रियाहेतुस्तत्सा मौपचारिकम् / अङ्गल्यग्रे करिशतमास्ते / 588 न वा सुजथैः काले // 2 / 2 / 96 // सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां तदन्तैर्युक्तात् कालेऽधिकरणे वर्तमानाद् गौणानाम्नः सप्तमी वा स्यात् / द्विरहि अहो वा भुङ्क्ते / सुजथैरिति किम् / अह्नि भुङ्क्ते / बहुव्रीह्याश्रयणं किम् / सुजर्थप्रत्ययस्यायोगे तदर्थे मा भूत् / काल इति किम् / द्विः कांस्यपात्र्यां भुङ्क्ते / अधिकरणे इत्येव / द्विरह्ना भुङ्क्ते / आधारस्याधारत्वाविवक्षायां पक्षे शैषिकी षष्ठी सिदैव / नियमार्थ तु वचनम् / तेन प्रत्युदाहरणेषु शेषे षष्ठी न भवत्येव। 589 कुशलायुक्तेनासेवायाम् ||2 / 2 / 97|| कुशलो निपुणः। आयुक्तो व्यापूतः / आभ्यां युक्तादाधारे वर्तमानाद् गौणान्नाम्नः सप्तमी वा स्यात् आसेवायांतात्पर्य गम्यमाने / कुशलो विद्याग्रहणे / आयुक्तस्तपश्चरणे / पक्षे अधिकरणाविवक्षायां शेषषष्ठी / कुशलो विद्याग्रहणस्य / आयुक्तस्तपश्चरणस्य / आ सेवायामिति किम् / कुशलश्चित्रकर्मणि न च करोति / आयुक्तो गौः शकटे-आकृष्य युक्त इत्यर्थः। अधिकरणे इत्येव नित्यं सप्तमी / पक्षे आधारस्याविवक्षायां विकल्पे सिद्धेऽजासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् / 590 स्वाभीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः॥२।२।९८॥ एभियुक्ताद् गौणान्नाम्नः सप्तमी वा स्यात् / पक्षे शेषषष्ठी / गोषु गवां वा स्वामी / गोषु गवां वेश्वरः / गोषु गवां वाधिपति : ।गोषु गवां वा दायादः / गोषु गवां वा साक्षी। गोषु गवां वा प्रतिभूः। गोषु गवां वा प्रसूतः। स्वामीश्वराधिपतीति पर्यायोपादानात्