________________ 132 सिद्धहैमबृहत्प्रक्रिया. [कारक शस्त्रेण भेत्ता / क्रियाविशेषणस्यापि कर्मत्वाभावान्न भवति / साधु पक्ता / कृत इति किम् / कटं करोति / त्यादितद्धितयोः कर्मणि मा भूत् / कथं अर्थस्य त्यागी, सुखस्य भोगीत्यादि ? / अत्र ताच्छीलिकयोपिणिनोः कर्मेति भवति / / 575 द्विषा वातृशः // 2 / 2 / 84 // अतृश् प्रत्ययान्तस्य द्विषः कर्मणि गौणानाम्नः षष्ठी वा स्यात् / तन्नादिसूत्रेण प्रतिषेधे प्राप्ते विकल्पोऽयम् / चौरस्य चौरं वा द्विषन् / 576 वैकस्य द्वयोः // 2 / 2 / 85 // द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकत्रैकतरस्मिन् वा षष्ठी स्यात् / अन्यत्र पूर्वेण नित्यमेव / अजाया नेता स्रुघ्नं स्रुघ्नस्य वा। अथवा-अजां अजाया वा नेता त्रुघ्नस्य / अन्ये तु नीवह्यादीनां द्विकर्मकाणां गौणे कर्मणि, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति। उभयत्रापि नित्यमेवेत्यन्ये / 577 कर्तरि // 2 / 2 / 86 // कृदन्तस्य कर्तरि गौणानाम्नः षष्ठी स्यात् / तृतीयापवादः। भवत आसिका। कर्तरीति किम् / गृहे शायिका / कृत इत्येव / त्वया शय्यते। 578 विहेतोरस्त्यणकस्य वा // 2 / 2 / 87 // स्त्र्यधिकारविहिताभ्यामकारणकाराभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोः प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा स्यात् / नित्यं प्राप्ते विभाषेयम् / विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा। आश्चर्यो गवां दोहोऽगोपालकस्य अगोपालकेन वा। गम्यमानेऽपि कर्मणि भवति। अन्तर्षी येनादर्शनमिच्छति यस्यादर्शनमिच्छतीति वा / अत्रात्मन इति कर्म गम्यते / द्विहेतोरित्येकवचननिर्देशः किम् / आश्चर्यमोदनस्य नाम पाकोऽतिथीनां प्रादुर्भाव इति / भिन्नकृतोः कर्तृकर्मषष्ठीहेतुखमिति अत्र न भवति / अस्त्र्यणकस्येति किम् / चिकीर्षा मैत्रस्य काव्यानाम् / भावे णकः / कर्तरीत्येव / साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वेत्यत्र शब्दशब्दात् कर्मणि विकल्पो न भवति / अन्ये तु घबलप्रत्यययोद्वित्वहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न कर्तरि। आश्चर्यो गवां दोहोऽगोपालकेन / 579 कृत्यस्य वा // 2 / 2 / 88 // कृत्यस्य कर्तरि गौणानाम्नः षष्ठी वा स्यात् / भवतो भवता वा कार्यः, कर्तव्यः, करणीयः, देयः, कृत्यो वा कटः। कर्तरीत्येव / गेयो माणवको गाथानाम् /