________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. अत्र सववृत्तिता / करण इति किम् / क्रियाविशेषणे मा भूत् / स्तोकं चलति / इह च स्तोकादीनामसखवाचिवात् द्विखबहुसासंभव एकवचनमेव / _ 'स्तोकस्य चाभिनिवृत्तेरनिवृत्तेश्च तस्य वा। प्रसिद्धि करणत्वस्य स्तोकादीनां प्रचक्षते // 871 अज्ञाने ज्ञः षष्ठी // 2 / 2 / 80 // अज्ञानेऽर्थे वर्तमानस्य जानातेः संबंधिनि करणे वर्तमानाद गौणान्नाम्नः षष्ठी स्यात् / वेति निवृत्तम् / सर्पिषो जानीते। सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः / प्रवृत्तिरत्र जानातेरर्थः। अथवा सर्पिषि रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सीरूपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानातिः। मिथ्याज्ञानं चाज्ञानमेव भवति / अज्ञान इति किम्। स्वरेण पुत्रं जानाति / करण इत्येव / तैलं सर्पिषो जानाति / तैलं सपीरूपेण प्रतिपद्यत इत्यर्थः / अत्र तैलात् कर्मणो मा भूत् / सर्पिषस्तु करणत्वाद् भवत्येव / तृतीयापवादो योगः। 572 शेषे // 2 / 2 / 81 // कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्माद्यविवक्षालक्षणोऽश्रूयमाणक्रियः श्रयमाणक्रियो वास्येदंभावरूपः स्वस्वामिभावादिः संबंधविशेषः शेषः। तत्र गौणानाम्नः षष्ठी स्यात् / प्रथमापवादो योगः / राज्ञः पुरुषः / माषाणामश्नीयात् / कथं पुनः कर्मादीनां सतामप्यविवक्षा?। यथा अनुदरा कन्या, अलोमिका एडकेति। गौणादित्येव / राज्ञः पुरुषः। अत्र संबंधस्य द्विष्ठत्वेऽपि प्रधानात् पुरुषान्न भवति। प्राधान्यं चास्याख्यातपदसामानाधिकरण्यम् / तेन ततः प्रथमैव भवति / यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते तदा पुरुषस्य राजेति भवत्येव। कथं राज्ञः पुरुषस्य कंबल इति ? / राजापेक्षया पुरुषस्य प्राधान्येऽपि कंबलापेक्षया गौणत्वाद् भवति / 573 रिरिष्टात्स्तादस्तादसतसाता // 2 / 2 / 82 // रिष्टात् स्तात् अस्तात् अस् अतस् :आत् प्रत्ययान्तैर्युक्ताद् गौणानाम्नः षष्ठी स्यात् / उपरि ग्रामस्य / उपरिष्टात् ग्रामस्य / परस्ताद् ग्रामस्य / अवरस्ताद् ग्रामस्य। पुरस्ताद् ग्रामस्य / पुरो ग्रामस्य / दक्षिणतो ग्रामस्य / अधराद् ग्रामस्य / पञ्चम्यपवादो योगः। 574 कर्मणि कृतः // 2 / 2 / 83 // कृदन्तस्य संबंधिनि कर्मणि गौणानाम्नः षष्ठी स्यात् / द्वितीयापवादः / अपां स्रष्टा / ओदनस्य भोजकः / कर्मणीति किम् /