________________ [ कारक भ्यः कथं न भवति ? / उच्यते / प्रत्यासत्तेर्यस्यैवान्यत्वादिधर्मनिमित्तोऽन्यशद्वादिना योगस्तत एव जिनदत्तादेः पञ्चमो भवति न मैत्रादेरिति / 567 ऋणाद्धेतोः // 2 / 276 // फलसाधनयोग्यः पदार्थो हेतुः। हेतु हेतोरिति किम् / शतेन बद्धः। कलक्षणा तृतीया भवति / हेतुहि फलसाधनयोग्यः पदार्थः कादिभ्योऽन्य उच्यते इति कथं कर्तुहेतुत्वम् / 568 गुणादस्त्रियां नवा // 6 // 7 // अस्त्रियां वर्तमानाद् हेतुभूतगुणवाचिनो गौणानाम्नः पञ्चमी वा स्यात् / जाड्याद जाडयेन वा बद्धः। गुणा बुद्धया मुक्तः। अस्त्यत्रानिधूमात्, नास्तीह घटोऽनुपलब्धेः, सर्वमनेकान्तात्मकं सत्वान्यथानुपपत्तेरित्यादौ नाग्न्यादेधूमादिहेतुः। कस्य तर्हि तज्ज्ञानस्य / कथं तहि पञ्चमी ? / गम्ययपः कर्माधारे इति भविष्यति / धूमादिकमुपलभ्याग्न्यादिः प्रतिपत्तव्य इति ह्यत्रार्थः। ज्ञानहेतुत्वविवक्षायां हेतुखलक्षणा तृतीया भवति / धूमेनामिः, अनुपलब्ध्या घटाभावः, सखान्यथानुपपत्त्या सर्वमनेकान्तात्मकं प्रतिपत्तव्यमिति / 569 आरादथैः // 2 / 2 / 78 // आराद् दूरान्तिकयोः / तन्त्रेणोभयग्रहणम् / दूरार्थैरन्तिकार्यैश्च शब्दैर्युक्ताद् गौणानाम्नः पञ्चमी वा स्यात् / दूरं ग्रामाद् ग्रामस्य वा। विप्रकृष्टं ग्रामाद् ग्रामस्य वा। अन्तिकमभ्याशम् ग्रामाद् ग्रामस्य वा। आराच्छब्दयोगे तु प्रभृत्यादिसूत्रेण नित्यमेव पञ्चमी। अथ दूरं हितं ग्रामात, दूरं हितं. ग्रामस्य भूयादित्यादौ हितादियोगे पञ्चम्यभावपक्षे 'हितसुखाभ्यामि'ति चतुर्थी कस्मान भवति ? / उच्यते / हितसुखादियोगे सा चतुर्थी / इह तु दूरान्तिकादिनैव योगो न तद्विशेषणेन हितादिनेति न भवति / यदा तु हितादिना विशेष्यतया योगस्तदा चतुर्थी भवत्येव / अन्ये त्वसत्त्ववचनैरेवारादर्थैरिच्छन्ति / 570 स्तोकाल्पकृच्छूकतिपयादसत्वे करणे // 2 / 279 // यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् / तेनैव वा रूपेणाभिधीयमानं द्रव्यादि / तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् / स्तोकेन स्तोकाद्वा मुक्तः / अल्पेन अल्पाद्वा मुक्तः। कृच्छ्रेण कृच्छाद्वा मुक्तः। कतिपयेन कतिपयाद्वा मुक्तः। असत्त्व इति किम् / स्तोकेन विषेण हतः। विषादिद्रव्यसामानाधिकरण्यात्