________________ 125 प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 550 श्लाघहनुस्थाशपा प्रयोज्ये / / 2 / 2 / 60 // ज्ञाप्य इत्यनुवर्तते / श्लाघादिभियुक्ताद् ज्ञाप्ये प्रयोज्येऽथै वर्तमानाद् गौणानाम्नश्चतुर्थी स्यात् / मैत्राय श्लाघते, न्हुते, तिष्ठते, शपते / श्लाघान्हवस्थानशपथान् कुर्वाण आत्मानं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः। प्रयोज्य इति किम् / मैत्रायात्मानं श्लाघते / मैत्राय शतं न्हुते / आत्मादौ मा भूत् / केचित्त्वप्रयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति / 551 तुमोऽर्थे भाववचनात् // 2 / 2 / 61 // क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते तस्यार्थे ये भाववाचिनो घनादयः प्रत्यया विधास्यन्ते तदन्ताद गौणानाम्नः स्वार्थ चतुर्थी स्यात् / पाकाय याति। पक्तुं बजतीत्यर्थः। तादर्थ्यस्य प्रत्ययेनैवोक्तत्वात् चतुर्थी न पामोति इति शेषषष्ठी हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीया स्यादिति चतुर्थ्यर्थ वचनम् / तुमोर्थ इति किम् / अध्ययनेन वसति / नात्र क्रियायां क्रियार्थायामुपपदे प्रत्ययो विहितः किं तर्हि भावमात्रे पश्चात्तु क्रिययाभिसंबंध इति हेतौ तृतीयैव भवति। भाववचनादिति किम्। पक्ष्यतीति गां दास्यतीति च पाचकस्य व्रज्या, गोदायस्य परिसर्या / तुम इति व्यस्तनिर्देश उत्तरार्थः। 552 गम्यस्याप्ये // 22 // 62 // यस्यार्थी गम्यते न च शब्दः प्रयुज्यते स गम्यः, तस्य तुमो यदाप्यं व्याप्यं तत्र वर्तमानाद् गौणानाम्नश्चतुर्थी स्यात् / द्वितीयापवादः। एधेभ्यो, फलेभ्यो वा व्रजति। एधान फलानि वाहतुं बजतीत्यर्थः। गम्यस्येति किम् / एधानाहर्तुं व्रजति। आप्य इति किम् / एधेभ्यो बजति शकटेन / करणान्मा भूत् / तुम इत्येव। प्रविश पिण्डी द्रारम्। अत्र भक्षयेति पिधेहीति च गम्यम् / 653 गतेर्नवाऽनाते // 2 / 2 / 63 // गतिः पादविहरणं तस्या गतेराप्येऽ नाप्तेऽसंप्राप्ते वर्तमानाद गौणानाम्नश्चतुर्थी वा स्यात् / ग्रामं ग्रामाय वा गच्छति / नगरं नगराय वा व्रजति / गतेरिति किम् / आदित्यं पश्यति / मनसा मेरुं गच्छतीत्यत्र ज्ञानार्थी गभिः। आप्य इत्येव / ग्रामादागच्छति / अनाप्त इति किम् / पन्थानं गच्छति / कुद्योगे तु परत्वात् षष्ठयेव भवति। ग्रामस्य गन्ता, द्वितीयैवेत्यन्ये / ग्रामं गन्ता / चतुर्थी चेत्यन्ये / ग्रामं ग्रामाय वा गन्तेति / 554 मन्यस्यानावादिभ्योऽतिकुत्सने // 2 / 2 / 64 // अतीव कुत्स्यतेऽ