SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 124 सिद्धहैमबृहत्प्रक्रिया. [कारक युक्तादथिन्यभिलाषुके वर्तमानाद् गौणान्नाम्नश्चतुर्थी स्यात् / द्विजाय गां प्रतिशृणोति, आशृणोति / याचितोऽयाचितो या प्रतिजानीते इत्यर्थः / प्रत्याङ इति किम् / चैत्रस्य शृणोति / अर्थिनीति किम् / द्विजाय गां प्रतिशृणोतीत्यत्र गवि मा भूत् / 547 प्रत्यनोगुणाख्यातरि // 2 / 2 / 57 / / प्रत्यनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद् गौणानाम्नश्चतुर्थी स्यात् / आचार्याय प्रतिगृणात्यनुगृणाति / आचाक्तिमनुवदति, प्रशंसन्तं वा प्रोत्साहयति इत्यर्थः। प्रत्यनोरिति किम् / आचार्यों गृणाति / आख्यातरीति किम् / आचार्याय मनसा प्रतिगृणातीत्यत्र मनसि मा भूत् / .748 यहीक्ष्ये राधाक्षी // 2 / 208 // वीक्ष्य विमतिपूर्वकं निरूपणीयम् / विप्रश्नविषय इति यावत् / तद्विषया क्रियापि वीक्ष्यम् / यत्संबंधिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन् वर्तमानाद गौणानाम्नः सामर्थ्याद राधीक्षिभ्यामेव युक्ताच्चतुर्थी स्यात् / मैत्राय राध्यतीक्षते वा / तस्य दैवं पर्यालोचयतीत्यर्थः / स्त्रीभ्य ईक्षते / स्त्रीणामभिप्रायः कीदृश इति विमतिपूर्वकं निरूपयतीत्यर्थः / ' ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् -परस्त्रीणामभिप्राये यत् संदेहादीक्षितव्यं निरूपितव्यं किमेवं करोपि नवेति तद्रक्षसां कुलधर्मो न दोषः। दैवे एवेक्ष्ये इच्छन्त्येके। राधीक्ष्यर्थधातुयोगेऽपि इच्छन्त्येके / मैत्राय राधयति साधयति पश्यति जानीत इति चोदाहरन्ति / यद्ग्रहणं किम् / मैत्रस्य शुभाशुभमीक्षते। शुभाशुभान्मा भूत् / क्षेत्रात्तु राधीक्षिभ्यां योगाभावादेव न भवति / वीक्ष्यग्रहणं किम् / मैत्रमीक्षते / राधीक्ष्यर्थविषयात् विप्रष्टव्यादिच्छत्यन्यः / लाभाय राध्यति, राधयति, साधयति, ईक्षते, पश्यति वा / 549 उत्पातेन ज्ञाप्ये // 2 / 2059 // उत्पात आकस्मिक निमित्तम् / तेन ज्ञाप्ये-ज्ञाप्यमानेऽर्थे वर्तमानाद् गौणान्नाम्नश्चतुर्थी स्यात् / / वाताय कपिला विद्युत् आतपायातिलोहिनी / पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् // वातादयः स्वकारणेभ्य एवोत्पद्यन्ते, विद्युता तु ज्ञाप्यन्ते, इति तादर्थ्य नास्ति / उत्पातेनेति किम् / राज्ञ इदं छत्रमायातं विद्धि राजानम् / षष्ठयपवादो योगः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy