SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 123 प्रकरणम् सिद्धहैमबृहत्पक्रिया. कुप्यति विनयार्थम् / संप्रदानसंज्ञया कर्मसंज्ञाया बाधितत्वात् भावे आत्मनेपदादयः कर्तरि च क्तः सिद्धः। मैत्रायेष्यते इत्यादि / कथं चौरस्य द्विषन् , योऽस्मान् द्वेष्टि यं च क्यं द्विष्म इति / द्विषेरप्रीत्यर्थत्वान्न भविष्यति / 643 नोपसर्गात् क्रुद्रुहा // 2 // 2 // 28 // उपसर्गात् पराभ्यां ऋधिद्वहिगां योगे यं पति कोपस्तत् कारकं संपदानसंज्ञं न स्यात् / मैत्रमभिक्रुध्यति / मैत्रमभिद्रुह्यति / क्रुधिद्रुही सोपसर्गौ सकर्मकाविति द्वितीया / उपसर्गादिति किम् / मैत्राय क्रुध्यति, द्रुह्यति / 544 तादयें // 2 // 2 // 54 // किश्चिद् वस्तु संपादयितुं यत्प्रवृत्तं तत्तदर्थम् / तस्य भावे तादर्थ्य संबंधविशेषे द्योत्ये गौणानाम्नः षष्ठयवादश्चतुर्थी स्यात् / यूपाय दारु। 546 रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु // 2 / 2 / 15 / / रुच्यथैः कृप्यर्थैर्धारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमणे च वर्तमानाद् गौणानाम्नश्चतुर्थी स्यात् / वचनसाम्यं यथासंख्यार्थम् / बहुवचनं तु एकद्विबहाविति यथासंख्याभावार्थम् / रुच्यथैः प्रेये-प्रीयमाणे-जिनदत्ताय रोचते धर्मः। गुरुदत्ताय स्वदते दधि। तस्याभिलापमुत्पादयतीत्यर्थः। प्रेय इति किम् / चैत्राय तीत्यर्थः / कथं 'रोचते मम घृतं सह मुद्गैः शालयो दधिशरं कुकुराश्च / घृतमेव ममापि रोचते घृतशीतं च सशर्करं पयः // यवागूः / उच्चाराय संपद्यते यवानम् / तद्विकाररूपमापद्यत इत्यर्थः। विकार इति किम् / चैत्रस्य कल्पन्ते धनानि, संपद्यन्ते शालयः / गौणादित्येव / मूत्रमिदं संपद्यते यवागूः / धारिणोत्तमणे-चैत्राय शतं धारयति / उत्तमर्ण इति किम् / शतशब्दान्न भवति / उत्तम! धनिकः / 546 प्रत्याङाश्रुवाणिनि // 22 // 56 // प्रत्याङ्भ्यां परेण शृणोतिना
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy