________________ 120 सिद्धहैमबृहत्प्रक्रिया [कारक व्याप्तौ गम्यायाम् / मासेन, मासाभ्यां मासैर्वावश्यकमधीतम् / सिद्धाविति किम् / मासमधीत आचारो नानेन गृहीतः / अत्र व्याप्तिमात्रं गम्यते न सिद्धिः। भावादपीच्छन्त्यन्ये / गोदोहेन कृतः कटः। द्वितीयापवादो योगः।। 530 हेतुकर्तृकरणेत्थंभूतलक्षणे // 44 // फलसाधनयोग्यः पदार्थों हेतुः। कर्तृलक्षणं तूक्तमेव / करणलक्षणमनुपदमेव वक्ष्यते / इमं कंचित्पकारं भूत आपन्न इत्थंभूतः, स लक्ष्यते येन स इत्थंभूतलक्षणः। हेत्वादिष्वर्थेषु वर्तमानाद् गौणानाम्नस्तृतीया स्यात्। तत्र हेतौ-धनेन कुलम् / कर्तरि-चैत्रेण कृतम् / 531 साधकतमं करणम् / / 2 / 2 / 24 // क्रियासिद्धौ यत् प्रकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत् साधकतमं कारकं करणसंज्ञं स्यात् / काष्ठैः स्थाल्यां पचति / अस्य पाकादिकियासु ज्वलनादयोऽवान्तरव्यापाराः। विवक्षया च प्रकृष्टोपकारकत्वात् साधकतमत्वम् / तमग्रहणमपादानादिसंज्ञाविधौ तरतमयोगो नास्तीति ज्ञापनार्थम् / तेन कुमूलात् पचति, गङ्गायां घोषः प्रतिवसतीति व्यवहितयोरपि अपादानत्वमधिकरणत्वं च भवति / अस्य च कारकान्तरापेक्षया प्रकर्षो न स्वकक्षायाम् / तेनैकस्यां क्रियायामनेकमपि करणं भवति / नावा नदीस्रोतसा व्रजति, रथेन पथा दीपिकया यातीत्यादि / इत्थंभूतलक्षणे-अपि भवान् कमण्डलुना छात्रमद्राक्षीत् / छात्रत्वादिकं प्रकारमापन्नस्य मनुष्यस्य कमण्डल्वादिलक्षणम् / इत्थंभूतग्रहणं किम् / वृक्षं प्रति विद्योतनम् / अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति न भवति / 'सहार्थे ' इत्येव तृतीया सिद्धयति लक्ष्यलक्षणभावे तु षष्ठी मा भूदितीत्थंभूतलक्षणग्रहणम् / तथा धान्येनार्थः, धान्येनार्थी, मासेन पूर्वः, मासेनावर इत्यादौ कृतभवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीयेति / 532 सहार्थे // 2 / 2 / 45 // सहार्थस्तुल्ययोगो विद्यमानता च / तस्मिन् शब्दादर्थाद्वा गम्यमाने गौणानाम्नस्तृतीया स्यात् / पुत्रेण सहागतः। 'एकेनापि सुपुत्रेण सिंही स्वपिति निर्भरम् / सहैव दशभिः पुत्रैर्भारं वहति गर्दभी'। अर्थग्रहणात् पुत्रेण साकम् इत्यादावपि भवति / अर्थाद् गम्यमाने-पुत्रेणागतः, वृद्धो यूनेत्यादावपि सहार्थोऽस्ति। सुखेनास्ते, दुःखेन जीवती