________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. आभवति स दीयतामित्यर्थः / लक्षणे-वृक्षं प्रतिपर्यनु वा विद्योतते विद्यत् / वीप्स्ये वृक्षं वृक्षं प्रतिपर्यनु वा सेचनम् / इत्थंभूते-साधुर्देवदत्तो मातरं प्रतिपर्थनु वा। एतेष्विति किम् / अनुवनस्याशनिर्गता। समीप इत्यर्थः / 525 हेतुसहार्थेऽनुना // 2 // 2 // 38 // हेतुर्जनकः सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि सहार्थ उपचारात् / तयोर्वर्तमानादनुना युक्ताद् गौणानाम्नो द्वितीया स्यात् / जिनजन्मोत्सवमन्वागच्छन् सुराः। देवेन्द्रोपपाताध्ययनमन्वागच्छद्देवेन्द्रः। तेन हेतुनेत्यर्थः। पर्वतमन्ववसिता सेना। नदीमन्ववसिता सेना। पर्वतनदीभ्यां सह संबद्धत्यर्थः। अन्ये तु तृतीयार्थमात्र इच्छन्ति। पर्वतमन्ववसिता सेना। पर्वतेन क; करणेन वा कृतान्तेत्यर्थः / तृतीयापवादो योगः। गौणानाम्नो द्वितीया स्यात् / अनु सिद्धसेनं कवयः। उपोमास्वाति संग्रहीतारः / ताभ्यामन्ये हीना इत्यर्थः। 527 क्रियाविशेषणात् ॥राश४१॥ क्रियाया यद्विशेषणं तद्वाचिनो गौणान्नानो द्वितीया स्यात् / मृदु पचति / अथो पचति शोभनं ते भार्या / अत्र 'सपूर्वात् प्रथमान्ताद्वे' ति विकल्पो न भवति / द्वितीयार्थ च वचनं न कर्मसंज्ञार्थम् , तेन कृयोगे कर्मनिमित्ता षष्ठी न भवति / ओदनस्य शोभनं पक्तेत्यादौ चतुर्थी न भवति। 528 कालाध्वनोाप्तौ / / 2 / 2242 // स्वेन संबंधिना द्रव्यगुणक्रियारूपेण कार्थेन संबंधो व्याप्तिः। अत्यन्तसंयोग इति यावत् / तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणान्नाम्नो द्वितीया स्यात् / मासं गुडधानाः। मासमधीते / क्रोशं पर्वतः / क्रोशं कुटिला नदी। कालाधनोरिति किम् / स्थाल्यां पचति / व्याप्ताविति किम् / मासस्य मासे वा द्वयहं गुडधानाः। क्रोशस्य क्रोशे वा एकदेशे पर्वनः / षष्ठयाः सप्तम्या वा अयमपवादः। तेन मासमधीते, क्रोशमधीते इत्यकर्मकत्व इदमुदाहरणम् / कर्मत्वे कर्मणीत्येव द्वितीया सिद्धा। भावादपीच्छन्त्यन्ये / गोदोहं वक्रः / गोदोहं बुद्बुदाः। 529 सिद्धौ तृतीया // 2 / 2 / 43 // सिद्धौ-क्रियाफलसिद्धौ द्योत्यायां कालाध्ववाचिनो गौणान्नाम्नः टाभ्याभिस्लक्षणा यथासंख्यमेकद्विवहौ तृतीया स्यात्